पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्धः 1 दत्र त्वया स्थातव्यम्' । इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम। अथ तस्यां पुष्पवाटिकायां पङ्गुररघट्ट खेटयन्दिव्यगिरा गीतमुद्गिरति, तच्च श्रुत्वा कुसुमेपुणार्दितया ब्राह्मण्या तत्सका. शङ्गत्वाऽभिहितम्'-'भद्र ! यदि मां न कामयसे तन्मत्सता स्त्रीहत्या तव भविष्यति' । पङ्गुरब्रवीत्-'किं व्याधिग्रस्तेन मया करिष्यसि ?' साऽब्रवीत्-'किमनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः । तच्छ्रुत्वा स तथा कृतवान् । सुरतानन्तरं साऽब्रवीत्-'इतः प्रभृति यावजीवं मयात्मा भवते दत्त.'-इति ज्ञात्वा भवानप्यस्माभिः सहाऽऽगच्छतु ।' सोऽब्रवीत्-'एवमस्तु ।' अथ ब्राह्मणो भोजनं गृहीत्वा समा- गत्य तया सह भोक्तुमारब्धः । साऽब्रवीत्-'एष पङ्गुर्बुभुक्षितः, तदेतस्यापि कियन्तमपि ग्रासं देहि'-इति । तथाऽनुष्टिते ब्राह्म- ण्याऽभिहितम्-'ब्राह्मण ! सहायहीनस्त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचनसहायोऽपि नास्ति, तदेनं पङ्गु गृहीत्वा गच्छावः। सोऽब्रवीत्-न शक्नोम्यात्मानमप्यात्मना वोढुं, किं पुनरेनं पङ्गुम् ।' साऽब्रवीत्-पेटाभ्यन्तरस्थमेनमहं नेष्यामि ।' अथ तत्कृतवचनव्यामोहितचित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन्दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तथा में' ) अरघट्ट जलोद्धरणयन्त्रम् । अरघट्टः पुंसि । ( रहट)। खेटयन्-चालयन् (खेता हुआ, 'चलाता हुआ')। 'खेलयन्निति मुद्रितपाठेऽपि स एवार्थोऽनु- सन्धेयः। दिव्यगिरा मधुरस्वरेण। कुसुमेपुणा=कामेन । अर्दितया-पीडि- तया। कामयसे-सुरतेन तर्पयसि मत्सत्ता-मन्स रणजन्या । व्याधिग्रस्तन रोगपीडितेन । सङ्गमःरतिमहोत्सवः । तथा-सुरतं । यावजीवं यावदायुष्यम् । आत्मा शरीरम् । वचनसहायः वार्तालापकर्ता । पेटाभ्यन्तरस्थं सम्पुटकमध्य. स्थापितम् । (सन्दूख वा पिटारी में बैठा कर)। कृतकवचनैः कपटपूर्णवाक्यैः- व्यामोहितं चित्तं यस्यासौ तेन । प्रतिपन्नं स्वीकृतम् । कूपोकण्ठे-कूपसन्निधौ ।