पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ ॐ पञ्चतन्त्रम् [ ४ लब्ध- ज्येष्ठभ्रातृचेष्टितमूचतु:-'यथायं गजं दृष्टा दूरतोऽपि प्रनष्टः' इति । सोऽपि तदाकये कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस्ताम्रलो. चनस्त्रिशिखां भृकुटि कृत्वातौ निर्भसंयन्परुषतरवचनान्युवाच। ततः सिंह्या एकान्ते नीत्वा प्रबोधितोऽसौ-वत्स! मैवं कदाचि- जल्प, भवदीयलघुभ्रातरावेती-' इति । अथासौ सान्त्ववच. नेन प्रभूततरकोपाविष्टस्तामप्युवाच-'किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनो येन मामुपहसतः ? । तन्मयाऽवश्यमेतौ व्यापादनीयौ।' तदाकर्ण्य सिंही तस्य जीवि- तमिच्छन्त्यन्तर्विहस्य प्राह- 'शरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक ! । यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥४४॥ तत्सम्यक्णु, वत्स! त्वं शृगालीसुतः कृपया मया स्वस्त- नक्षीरेण पुष्टि नीतः । तद्यावदेतौ मत्पुत्रौ शिशुत्वात्त्वां शृगालं न जानीतः, तावद्रुततरं गत्वा स्वजातीयानां मध्ये मिलितो भव, नो चेदाभ्यां हतो मृत्युपथं समेष्यसि ।' सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः शनैः शनैरपसृज्य स्वजात्या मिलितः 18 तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं न जानन्ति, तावद्रुततरमपसर, नो चेदेतेपां सकाशाद्विडम्बनां प्राप्य सरिष्यसि ।' कुलालोऽपि तदाकर्ण्य सत्वरं प्रनष्टः । अतोऽहं ब्रवीमि स्वार्थमुत्सृज्य यो दम्भी'-इति । ॐ भङ्गे पलायने । कातरान्=भीतान् ॥४३॥ कोपाविष्टमना.-क्रोधाभिभूतचेताः। प्रस्फुरितः अधरपल्लवो यस्यासी तथा कोपप्रकम्पिताधरोष्टः । ताम्रलोचन:- रक्तनयन. । त्रिशिखाम्=कोपकरालाम् । तौ=सिंहसूनू । पुत्रक-वत्स! यस्मिन्- कुले-शृगालकुले । अतस्तव न दोष इत्याशयः ॥ ४४ ॥ अपसृत्य गत्वा । त्वमपि हे युधिष्ठिर । त्वमपि । एतेषां राजपुत्राणाम् । विडम्बनाम्-उपहासं, क्लेशं, कदर्थना वा। १ 'निर्भर्सयमान ' । पा० ।