पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३३७ MAA इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु | प्रभातेऽन्यत्किञ्चिदुपा- जयिष्यामि। साप्राह-भोः कान्त ! त्वया 'बालकोऽय'-मिति विचिन्त्य न हत., तत्कथमेनमहं स्वोदराथै विनाशयामि ? । उक्तश्च- अकृत्यं नैव कर्तव्यं प्राणत्यागेऽप्युपस्थिते । न च कृत्यं परित्याज्यमेप धर्मः सनातनः ॥४१॥ तस्मान्ममाऽयं तृतीय पुत्रो भविष्यति ।' इत्येवमुक्तवा तमपि स्वस्तनक्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा वाल्यसमयं निर्वा- हयन्ति स्म। अथ कदाचित्तत्र वने भ्रमन्नरण्यगजः समायातः। तं दृष्ट्रा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितो यावत् , तावत्तेन गालसुतेनाभिहितम्-'अहो ! गजोऽयं युष्मत्कुल- शत्रुः, तन्न गन्तव्यमेतस्याभिमुखम् ।' एवमुक्त्वा गृहं प्रति प्रधा- वितः। तावपि ज्येष्ठवान्धवभझान्निरुत्साहतां गतौ। साध्विदमुच्यते- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं, भन्ने भगमवाप्नुयात् ॥ ४२ ॥ तथा च- अत एव हि वाञ्छन्ति भूपा योधान्महाबलान् । शूरान्वीरान्कृतोत्साहान्वर्जयन्ति च कातरान् ।। ४३ ॥ अथ तौ द्वावपि भ्रातरौ गृहं प्राप्य पित्रोरग्रतो विहसन्तो मापन्नेषु तु विशेषतो न प्रहर्त्तव्यम् ॥ ४०॥ पथ्यं भोजनम् । प्राणत्यागे-प्राण- नागे । सनातन -नित्यः ॥४१॥ अय-शृगाल । स्वस्तनक्षीरेण स्वस्तन्य- दुग्धेन । परा=महतीम्। एक एव आचारो विहारश्च येषान्ते तथा ।प्रकुपिताननौ- क्रुद्धी। अभिमुख-संमुखम् , तौ=सिंहवालको। ज्येष्ठबान्धवस्य ज्येष्टभ्रातु शृगालस्य । भङ्गात् पलायनात् । रणं प्रति-युद्धं प्रति । सोत्साहन-उत्साहवता १ 'अस्मत्लशत्रु रिति शोभनः पाठः। २२