पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२

  • पञ्चतन्त्रम् *

[४ लब्ध येन सा दुष्टपत्नी तद्भक्षयित्वाऽनशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि ।' एवमुक्त्वा निवर्त्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतोपचारपूजस्तीर- मासादितवान् । ततश्च दीर्घतरचमणेन तमेव जम्बूपादपमा- रुढश्चिन्तयामास-'अहो !लब्धास्तावत्प्राणाः। अथवा साध्विदमुच्यते- न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ।। १४ ।। तन्ममैतय पुनर्जन्मदिनमिव सञ्जातम् ।' इति चिन्तय- मानं मकर आह-'भो मित्र ! अर्पय तद्धृदयं यथा ते भ्रातृ- पत्नी भक्षयित्वाऽनशनादुत्तिष्ठति ।' अथ विहस्य निर्भर्सयन्वानरस्तमाह-'घिग्धिङ् मूर्ख ! विश्वासघातक ! किं कस्यचित् हृदयद्वयं भवति ? । तदाशु गम्यतां । जम्बूवृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तञ्च यतः- सकृदुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १५ ॥ तच्छ्रुत्वा मकरः सविलक्षं चिन्तितवान्-'अहो! मयाऽति- मूढेन किमस्य स्वचित्ताभिप्रायो निवेदितः । तद्यद्यसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भयोपि विश्वासयामि । आह च- "मित्र ! हास्येन मया तेऽभिप्रायो लब्धः, तस्या न किश्चित्तव सम्बन्धसामान्ये वा षष्ठी । शून्यहृदयः हृदयविकलः । जल्पिता विविधदेवताना- मुपचारैः-नानोपकरणैः पूजा येनासौ तथा। पाठान्तरे तु जल्पितं-सङ्कल्पितं, उपयाचितशतं नानाविधबलिविशेषो येनासौ तथा। (उपयाचित-भोग' 'सिरणी' 'प्रसाद')। चङ्कमणं-चलनं ('लम्बे २ डग भरना')। अधस्तात् अधस्तले । सकृत्-एकवारम् । दुष्टं विकारं प्राप्तम् । सविलक्षं सलज्जम् । लब्ध.3 १. 'देवतोपयाचितशतः' इति लिखितपुस्तकपाठः । २. 'मूलान्यपीति मुद्रितपाठः ।