पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृह, तन्मम पृष्ठमारूढ. सुखेनाऽकुंतोभयो गच्छ।' सोऽपि तच्छुत्वा सानन्दमाह-'भद्र ! यद्येवं तत्कि विलम्ब्यते १ । त्वर्यताम्, एषोऽहं तव पृष्ठमारूढः । तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच-'भ्रातः ! शनैः-शनैर्गम्यतां, जलकल्लोलैः प्लाव्यते मे शरीरम् ।' तदाकर्ण्य मकरश्चिन्तयामास-'असावगाधं जल प्राप्तो मे वशः सञ्जातः, मत्पृष्टगतस्तिलमात्रमपि चलितुं न शक्नोति, तस्मात्कथयाम्यस्य निजाभिप्रायं, येनाभीष्टदेवतास्मरणं करोति।' आह च-'मित्र! त्व मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्स्मर्यतामभीष्टदेवता ।' स आह-भ्रातः ! किं मया तस्यास्तवापि चाऽपकृतं येन मे वधोपायश्चिन्तितः । मकर आह-भोः। तस्यास्तावत्तव हृदयस्याऽमृतमयफल- रसास्वादनमिष्टेस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् । प्रत्युत्पन्नमतिर्वानर आह-'भद्र ! यद्येवं-तत्कि त्वया मम तत्रैव न व्याहृतं ? येन स्वहृदयं जम्बूकोटरे सदैव मया यत्सु- गुप्तं कृतं तद्भातृपन्या अर्पयामि । त्वयाहंशून्यहृदयोऽत्र कस्मा- दानीतः। तदाकर्ण्य मकरःसानन्दमाह-'भद्र ! यद्येवं तदर्पय मे हृदयं, मादातुं नित्यमिच्छतीत्यर्थ ॥१२॥ पुलिनप्रदेशे जलनिस्सृतभूभागे, (दियरा)। अकुतोभयः निर्भयः । तथानुष्ठिते-पृष्टमारूढे । अगाधे-अतलस्पर्शे ('गहरा')। भयत्रस्तमना भयव्याकुलचित्त । असौ वानरः । वश. अधीनः । तस्या. त्वत्पत्न्याः । अपकृतम् अपराध कृत । अमृतमयाना फलानामास्वादनेन-भक्ष. णेन । मिष्टं मधुरम् । अन्न 'मृष्ट मिति पाठस्तु न शोभन (मृष्टं-शुद्धं, चिक्कणं वा ) । दोहद. अभिलाषः । तेन तस्मात । एतत् तद्वधोपायचिन्तनम् । प्रत्यु- पन्ना द्रागुत्पन्ना, मतिः-कर्तव्यबुद्धिर्यस्यासौ तथा। 'भ्रातृपत्न्य' इति च्छेदः । १. 'अकृतभय' इति प्रचलितः पाठः। २ 'मृष्ट' इति पाठान्तरम् । २२