पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ पञ्चतन्त्रम् [३ काको- रामस्य व्रजनं बलेनियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे सर्व कालवशाजनोऽत्र सहते कः कं परित्रायते ? ॥२५२।। क्क स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्तः ? क्व स जलनिधेर्वेलां बवा. नृपः सगरस्तथा ? । क स करतलाजातो वैन्यः ? के सूर्यतनुर्मनु- ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥२५३।। मान्धाता क गतस्त्रिलोकविजयी राजा क सत्यव्रतो ? देवानां नृपतिर्गतः क्व नहुष: ? स्वच्छास्त्रवित्केशवः । मन्ये ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः कालेनैव महात्मना ननु कृताः, कालेन निर्वासिताः ।।२५४॥ अपि च- स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि । म च ते च ताश्चा तानि च कृतान्तदृष्टानि नष्टानि ॥२५५।। अनधिगमनीयः अविषयः। ब्रजनं वनगमनम् । नियमन बन्धनं । वनं-वनगमनम् । 'वृष्णीना यादवानाम् । निधन =मरणम् । नाट्याचार्यकम् = नाट्याचार्यत्वं-वृहन्नलारूपेण विराटनगरेऽर्जुनस्य प्रसिद्धमेव । पतनं विनाशम् । लकेश्वरे रावणे, रावणस्येति यावत् । परित्रायते रक्षति ? । न कोपीत्यर्थ ॥ क्वेति । महेन्द्रस्य-सुहृद्भूत्वा=मित्रपदवीमासाद्य-क्क गतः ? वेला= मर्यादा। क्व तथा व गतः। प्रबोध्य = विकास्य । निमीलिता =सकोचिता , नाशिताः ॥ २५३ ॥ सत्यवत: भीष्मः । देवानामपि राजा महेन्द्रो भूत्वा-नहुष व गत केशव. श्रीकृष्ण. । सकुञ्जरवरा: अनेककोटिगजपरिवाराः । शक्रासनाध्यासिन. इन्द्रसिहासनार्धभागाध्यासनशीलाः । हन्त ? कालेनैव कृता , कालेनैव च नाशिता ॥ २५४ ॥ सः जगद्विदित., अस्माभिरनुभूतचर । एवमग्रे तच्छब्दः सर्वत्र पूर्वानुभूतप्रक्रान्तपरामर्शक । पूर्वोपात्तानां राजादोनाञ्च क्रमश: ‘स चे'- त्यादिना ग्रहणम् । कृतान्त दृष्टानिकालावलीढानि ॥ २५५ ॥ १ 'निवोपिताः। 2