पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीमवाप्य न्यायैकनिष्ठो. भूत्वोपभुव ॥

  • इति पञ्चतन्त्रे काकोलूकीयम् *

मत्त.-उन्मत्तो य. करी-गजस्तस्य कर्ण इव चञ्चलाम्-अतिचञ्चलाम् । न्यायैकनिष्ठ न्यायपरायणः । इति श्रीजगद्विदितमाहात्म्य--षट्शास्त्रवाचस्पति--मरुमण्डलमार्तण्ड-- श्री १०८ श्रीस्नेहिरामशास्त्रिणा पौत्रेण, 'प्रतिवादिभयङ्करभयङ्कर' विद्यावाचस्पति-न्यायशास्त्राचार्य-श्रीशिवनारायण- शास्त्रिणां पुत्रेण, श्रीराजलक्ष्मीगर्भसम्भूतेन श्री- गुरुप्रसादशास्त्रिणा विरचितायाम्पञ्चतन्त्रा- भिनवराजलक्ष्म्यां काकोलूकीयं नाम तृतीय तन्त्रम् ।।