पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४

  • पञ्चतन्त्रम् *

[३काको -- आसने शयने याने पानभोजनवस्तुपु। दृष्ट्वाऽन्तरं प्रमत्तेपु प्रहरन्त्यरयोऽरिषु ॥ २२८ ।। तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः । आत्मानमाहतो रक्षेत्प्रमादाद्धि विनश्यति ॥ २२९ ।। साधु चेदमुच्यते- सन्तापयन्ति कमपथ्यभुजं न रोगा ? दुर्मन्त्रिणं कमुपयान्ति न नीतिदोपाः ? । कं श्रीन दर्पयति ? कं न निहन्ति मृत्युः ? कं स्वीकृती न विपयाः परिंपीडयन्ति ? ॥ २३०॥ लुब्धस्य नश्यति यशः, पिशुनस्य मैत्री, 'नष्टक्रियस्य कुलमर्थपरस्य विद्या बलं व्यसनिनः, कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ।। २३१ ॥ तद्राजन् ! 'असिधाराव्रतं मयाऽऽचरितमरिसंसर्गादिति यद्भवतोक्तं, तन्मया साक्षादेवानुभूतम् । उक्तञ्च- अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः। स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ २३२ ॥ स्कन्धेनापि वहेच्छत्रु कालमासाद्य बुद्धिमान् । वहता कृष्णसर्पण मण्डूका विनिपातिताः ॥ २३३॥ धर्मः।। ग अन्तर=छिद्रं । प्रमत्तेषु असावधानेषु ॥ २२८ ॥ त्रिवर्गनिलयं धर्मार्थः कामसाधनम् । आत्मानं शरीरम् । आइतः सावधानः सन् ॥ २२९ ॥ दर्प यति गर्वशालिनं करोति । स्त्रीकृताः प्रमदाकृताः। 'स्वीकृते' इति लिखित- पुस्तकपाठः ॥२३० ॥ पिशुनस्य-सूचकस्य । नष्टक्रियस्य आचारशून्यस्य। अलसस्य च । अर्थ- परस्य धनपरायणस्य । 'अर्थपरस्य भृत्या' इति लिखितपुस्तकपाठ. ॥२३३॥ अभ्युद्धरेत् साधयेत् । भ्रंशः =नाशः ॥ २३२ ॥ वहता-शत्रून् स्कन्धे आरोप्य १ 'स्वीकृताः' । २ 'परितापयन्ति' पा०। ३ 'वहतो हता.' इति पा० ।