पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३०३ 7 रूपाभिजनसम्पन्नौ कुन्तीपुत्रौ बलान्वितौ । गोकर्मरक्षाव्यापारे विराटप्रेष्यतां गतौ ॥२२५।। रूपेणाऽप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव याऽत्र सापि विदशा कालक्रमादागता । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया द्रौपद्या ननु मत्स्यराजभवने घृष्टं न कि चन्दनम् ? ॥२२६॥ मेघवर्ण आह-तात ! असिधाराव्रतमिदं मन्ये यदरिणा सह संवासः।' सोऽब्रवीत्-'देव ! एवमेतत् , परं न तादृसूर्ख- समागमः क्वापि मया दृष्टः, न च महाप्रज्ञमनेकशास्त्रेष्वप्रतिमबुद्धिं रक्ताशं विना धीमान् । यत्कारणं-तेन मदीयं यथास्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महामूर्खा मन्त्रिमात्रव्यपदेशोप. जीविनोऽतत्त्वकुशलाः, यैरिदमपि न ज्ञातम्, यत्- अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः । अपसर्पसधर्मत्वान्नित्योद्वेगी च दूषितः ।। २२७ ॥ देवेन्द्र =इन्द्र । द्रविणेश्वर. कुवेर । अन्तक. यम । त्रिदण्ड छत्रम् ।धर्मात्मज = युधिष्ठिरः ॥ २२४ ॥ कुन्तीपुत्रौ नकुलसहदेवो । 'माद्रीपुत्राविति गौडा पठन्ति ॥ २२५ ॥ अप्रतिमेन-अनुपमेन । यौवनगुणै. सौन्दर्यलावण्यादिभिः । श्रीरिव साक्षालक्ष्मीरिव। विदशा दुर्दशाम् । सैरन्ध्रीति="हे सैरन्ध्र । चन्दनमा नयेत्येवं । सगवितं-सगर्व । साक्षेपं साधिक्षेपञ्च । युवतिमि =विराटराज- युवतिमि । आज्ञप्तया आदिष्टया। घृष्टमेवेति भाव । 'सैरन्ध्री यान्यवेश्मस्था स्ववशा शिल्पकारिणी'त्यमर ॥ २२६ ॥ 'यैरिदमपि न जात यदिति अग्रिम- श्लोकान्वयि । अरिता 'शत्रुपक्षात् । दुष्ट =न सङ्ग्राह्य , यतः-तत्सत्सङ्गतत्पर % शत्रुसङ्गप्रवर्ण एव स भवति, तत एवागतत्वात् । पाठान्तरे-सर्पसंवासधर्मत्वात्= सर्पयुक्तगृहवत् नित्यं भयजनकत्वात्स दूषित =त्याज्य एव । मुद्रितपाठेतु- अपसर्प गुप्तचर. । तत्सधर्मत्वात् तत्तुल्यत्वादित्यर्थ ॥ २२७ ॥ १. 'गोवाजित्वस्तिसस्कारे' इति पाठा०। तत्र स्वस्तिसंस्कारः रक्षादि । ( 'झाड- फूक' 'निगरानी' )। २ अरितोऽभ्यागतोऽमित्रः शत्रुसवासतत्पर । सर्पसवासधर्मित्वा- नित्योद्वेगेन दूषितः। पति, अपसर्पसधर्मत्वादिति च पाठा। । 1