पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ 1

  • पञ्चतन्त्रम् *

[ ३ काको- पयैरेवाहोभिर्मयूर इव स बलवान्संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानञ्च प्रत्याह-'अहो ! मूर्योऽयं मन्त्रिजनो भवाश्चेत्येवमहमवगच्छामि । उक्तञ्च- पूर्वन्तावदहं मूर्यो, द्वितीयः पाशबन्धकः । ततो राजा च मन्त्री च, सर्व वै मूर्खमण्डलम् ॥ २११ ॥ ते प्राहु:-कथमेतत् ? । रक्ताक्षः कथयति- १३. स्वर्णपुरीषपक्षि-राज-मन्त्रिकथा अस्ति कस्मिंश्चित्पर्वतैकदेशे महान्वृक्षः। तत्र च सिन्धुक नामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णमुत्पद्यते। अथ कदाचित्तमुद्दिश्य व्याधः कोऽपि समाययौ। स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज । अथ पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्-'अहो! मम शिशुकालादारभ्य शकु- निबन्धव्यसनिनोऽशीतिवर्षाणि समभूवन्-न च कदाचिदपि पक्षि- पुरीषे सुवर्ण दृष्टम् । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुप. विष्टः तत्कालमेव पाशेन बद्धः। व्याधस्तु तं पाशादुन्मुच्य पञ्ज- रके संस्थाप्य निजाऽऽवासं नीतवान् । अथ चिन्तयामास-किम- नेन साऽपायेन पक्षिणाहं करिष्यामि ?-यदि कदाचित्कोऽप्यमुमी- दृशं ज्ञात्वा राज्ञे निवेदयिष्यति,-तन्नूनं प्राणसंशयो मे भवेदतः स्वयमेव पक्षिण राज्ञे निवेदयामि।' इति विचार्य तथैवाऽ- नुष्ठितवान् । प्रभूतं । संवृत्त. जातः । पोष्यमाणमासदानादिना रक्ष्यमाणम्। भवान् राजा। अवगच्छामि निश्चिनोमि, जानामि । पाशबन्धक लुब्धकः ॥ २११ ॥ पुरीषे= विष्टायाम् । तमुद्दिश्य-तद्वन्धनाभिप्रायेण । तदग्रतः= व्याधाग्रतः । शकुनिबन्ध एव व्यसनं तदस्त्यस्य तथा भूतस्य । असौ-सिन्धुकः । तत्रैव-तस्मिन्नेव वृक्षे । सापायेन=विपत्तिबहुलेन । ईदृशं सुवर्णपुरीषम् । तथैवानुष्टितवान् राज्ञे निवेदित- 1 -