पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२९.७ -- अथ राजाऽपि तं पक्षिणं दृष्ट्वा विकसितनयनवदनकमल: परां तुष्टिमुपागतः । प्राह चैवं-'हंहो रक्षापुरुपाः! एनं पक्षिणं यत्नेन रक्षत, अशनपानादिकं चास्य यथेच्छ प्रयच्छत ।' अथ मन्त्रिणाऽभिहितम् 'किमनेनाऽश्रद्धेयव्याधवचनप्रत्ययमात्रपरि- गृहीतेन अण्डजेन ? । किं कदाचित्पक्षिपुरीषे सुवर्ण सम्भवति ? । तन्मुच्यतां पञ्जरवन्धनादयं पक्षी । इति मन्त्रिवचनाद्राज्ञा मोचि- तोऽसौ पक्ष्युन्नतद्वारतोरणे समुपविश्य सुवर्णमयी विष्ठां वि. धाय-'पूर्व तावदह मूर्खः'-इति श्लोकं पठित्वा यथासुखमा- काशमार्गेण प्रायात् । अतोऽहं ब्रवीमि-'पूर्वतावदहं मूर्खः इति। अथ ते पुनरपि प्रतिकूलदैवतया हितमपि रक्ताक्षवचनम- नादृत्य भूयस्तं प्रभूतमांसादिविविधाहारेण पोपयामासुः । अथ रक्ताक्षः स्ववर्गमाहूय रहः प्रोवाच- अहो ! एतावदेवा- ऽस्मद्भपतेः कुशलं दुर्गश्च । तदुपदिष्टं मया यत्कुलक्रमागतः सचिवोऽभिधत्ते। तद्वयमन्यत्पर्वतदुर्ग सम्प्रति समाश्रयामः । उक्तञ्च यतः,- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ।२१२। वान् । विकसित नयनवदनमेव कमलं यस्यासौ. तथाभूत =प्रसन्नमुखः । तुष्टि= प्रसन्नताम् । हहो अहो । रक्षापुरुषा रक्षका. (सिपाहीलोगो । )। अश्रद्धेयं विश्वासानह, यद्वयाधस्य = शाकुनिकस्य, वचनं, तत्र य प्रत्ययो-विश्वास , तन्मा- त्रेण य. परिगृहीत.-स्थापितः, अण्डज पक्षी। उन्नतद्वारतोरणे-उन्नत-गृह- द्वारवहिर्भूतद्वारप्रदेशे । यथासुखं = यथेच्छम् । ते-उलूकाः । प्रतिकूलदैवतया दुरदृष्टवशीभूततया। त=स्थिरजीविनम् । रह = एकान्ते । एतावत् = एतावत्पर्यन्तमेव । राज्ञो दुर्गस्य च नाग्रे कुशलं भवि- ध्यतीत्यर्थ.। मया तदुपदिष्टं यद्धितैपिणा कुलीनेन मन्त्रिणोपदेष्टव्यम्। परन्तु राजा तन्न मन्यते इति शेष सम्प्रति इदानीम् । अनागत-सुविचारितम् । अनागतमेव- 2 - , १ बिलेऽन्न जातस्ये ति, 'वने वसन्मन जरामुपागत' इति च पाठा० ।