पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पचतन्त्रम् *

[३ काको- तथा च-सन्तोऽप्यर्था विनश्यन्ति देशकालविरोधिनः । अप्राज्ञान्मत्रिणः प्राप्य तमः सूर्योदये यथा ।। १९७।। ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्वदुर्ग- मानेतुमारब्धाः। अथाऽऽनीयमानः स्थिरजीव्याह-'देव ! अद्या- ऽकिञ्चित्करणैतवस्थेन किं मयोपसङ्ग्रहीतेन ? । यत्कारणम्- 'इच्छामि दीप्तं वह्निमनुप्रवेष्टुं, तदर्हसि मामग्निप्रदानेन समुद्धर्तुम्।' अथ रक्ताक्षस्तस्यान्तर्गतभावं ज्ञात्वाऽब्रवीत्-'किमर्थमग्नि- पतनमिच्छसि । सोऽब्रवीत्-'अहं तावद्युष्मदर्थे इमामापदं मेघ- वर्णेन प्रापितः। तदिच्छामि तेषां वैरयातनार्थमुलूकत्व'मिति । तच्च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह-'भद्र ! कुटिल- स्त्वं कृतकवचनचतुरश्च । तत्त्वमुलूकयोनिगतोऽपि स्वकीया- मेव वायसयोनि बहु मंस्यसे।' श्रूयते चैतदाख्यानकम्- सूर्य भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता, स्वजातिईरतिक्रमा ।। १९८ ।। मन्त्रिणः प्रोचुः-'कथमेतत् ?' । रक्ताक्षः कथयति- १२. मूषककन्याविवाहकथा अस्ति विषमशिलातलस्खलिताम्बुनि?षश्रवणसन्त्रस्त- धारिश्रष्ठ!। तद्गुणवर्णनं संयमवर्णनम् । मूलोत्खाता.-मूलोच्छिन्नाः। सम्भाव्यन्ते -निश्चीयन्ते । विपरीतोपसेविनः अनुचितोपदेष्टार । देशकालविरोधिनः देश- कालाननुरूपाः ॥ १९७ ॥ तद्वचः रक्ताक्षमन्त्रिवचनम् । उत्क्षिप्य उत्थाष्य । एतदवस्थेन ईदृशीमवस्थां गतेन । उपसङ्ग्रहीतेन रक्षितेन । अग्निप्रदानेन चिता- प्रदीपनेन। समुद्धर्तु-क्लेशादस्मान्मोचयितुम् । तेषा=काकानाम् । वैरयातनार्थ- वैरशोधनार्थ । ( बदला लेने के लिए )। कृतवचनचतुरः कुटिलमिथ्यावचन रचनाकुशल. । वहु मन्यसे उत्कृष्टा मस्यसे, (यदि तुम उल्लू भी हो जाओगे तो भी अपनी काकजाति को ही अधिक.मानोगे )। 'मन्यसे' इत्यस्य स्थाने 'मंस्यसे-इत्येव वै गौडा. पठन्ति । आख्यानक-कथा । पर्जन्य-मेघम् । गिरि =पर्वतम् । दुरतिक्रमा दुस्त्यजा ॥ १९८ ॥