पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

    • अभिनवराजलक्ष्मीविराजितम् *

नीत्वा प्रस्थितः। -अथ रक्षापुरुषा अपि-वह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतोगत्वाऽन्येद्युस्तं.सार्थवाहंमिथ्याऽऽहु 'स्वामिन् ! मृतोऽसौ सञ्जीवकः । अस्माभिस्तु 'सार्थवाहस्याऽ. भीष्ट' इति मत्वा वह्निना संस्कृतः' इति । तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहाहृदयस्तस्यौर्ध्व- देहिकक्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽप्यायुःशेषतया यमुनासलिलमिः शिशिरतर- वातैराप्यायितशरीरः कथञ्चिदप्युत्थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि वालतृणाऽग्राणि भक्षयन्कतिपयैरहोभिर्हरवृषभ इव पीनः ककुझान्बलवांश्च संवृत्तः। प्रत्यहं वल्मीकशिखरामाणि शृङ्गाभ्यां विदारयन्गर्जमान आस्ते । साधु चेदमुच्यते- अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपिगृहे विनश्यति ॥२०॥ अथ कदाचित्पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपा. साकुल उदकपानार्थयमुनातटमवतीर्णः सञ्जीवकस्य गम्भीरतर. रावं दूरादेवाऽशृणोत् । तच्छुत्वाऽतीव व्याकुलहृदयः ससा- ध्वसमाकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेनाऽवस्थितः। चतुर्मण्डलावस्थानं त्विदम्-सिंहः, सिंहानुयायिनः, काकरवर्गः, किंवृत्ताश्चेति । मिति निश्चित्य। रक्षापुरुषान् रक्षकान्। ('सिपाही रखवाले') निरूप्य-स्थापयित्वा। पृष्ठत =अनुपदमेव । (पीछे)। अन्येयु =अपरदिने (दूसरे दिन)। इति इत्थं । सार्थ- वाहस्य-वणिक्संघाधिपतेर्वर्द्धमानस्य भवत । अभीष्ट =प्रियोऽय वृपभ । इति इत्थं विचार्य । संस्कृत =दग्ध । और्ध्वदेहिकक्रिया =पिण्डदानादिका । वृपोत्सर्ग = तत्स्मरणार्थ धर्मवृपमोचनं । मरकत -मणिभेद [ 'पन्ना' ] । ककुमान्-मासल । वल्मीकं वामलर । ( ढूह )। तस्य शिखराणा शृङ्गाणामग्राणि अग्रभागान् । सर्वे मृगा =वन्यजन्तव । गम्भीरतररावं-बलवद्धुपारध्वनि । ससान्वसं-सभ- यम् । आकारं-निजभाव । चतुर्मण्डलावस्थानेन-मण्डलचतुष्टयाख्यव्यूह निर्माय, तेनात्मानं गोपायित्वा च । सिंह'--सर्वदेशवनाधिपति, सिंहानुयायिन -राज्य-