- पञ्चतन्त्रम्
[१ मित्र- -इत्येवं सम्प्रधार्य मथुरागामीनि भाण्डान्यादाय शुभायां तिथौ गुरुजनाऽनुज्ञातः सुरथाऽधिरूढः प्रस्थितः। तस्य च मङ्गल- वृपभौ सञ्जीवक-नन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः सञ्जीवकाऽभिधानो यमुनाकच्छमवतीर्णः सन्पङ्क- पूरमासाद्य कलितचरणो युगभङ्गं विधाय निषसाद । अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत् । तदर्थ च स्नेहाहदयस्त्रिरात्रं प्रयाणभङ्गमकरोत् । अथ तं विषण्णमालोक्य सार्थिकैरभिहितम्-'भोः श्रेष्टिन् ! किमेवं वृपभस्य कृते सिंह-व्याघ्रसमाकुले बह्वपायेऽस्मिन्वने समस्तसार्थस्त्वया सन्देहे नियोजितः ? । उक्तञ्च- न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवाऽत्र पाण्डित्यं यत्स्वल्पाद्भरिरक्षणम् ।। १९ ॥ अथाऽसौतदवधार्य सञ्जीवकस्य रक्षापुरुषान्निरूप्याऽशेषसार्थ चणिग्जना , श्रेष्टिन । देशान्तर गत्वा मूल्यादपि द्विगुणं चतुर्गुणं वा धनं प्राप्नु- चन्तीत्यर्थ.। इत्येवम् इत्थं विचार्य, देशान्तराद्भाण्डानयस्य सर्वथा श्रेष्ठता सम्प्रधार्य- निश्चित्य। मथुरागामीनि-मथुरापुर्या विक्रेयाणि, तदुचितानीति यावत् । भाण्डानि= पण्यानि । 'भाण्ड क्लीवममत्रेऽश्वभूषणे तथा । वणिमूलधनेऽन्ये तु पण्ये केचिदु- पस्करे ॥' इति केशव । धूर्वोढारी-बलिष्ठौ बलीवदौ । स्थितौ आस्ताम् । यमुना- कच्छ कालिन्दीतीरप्रदेश । 'कच्छो जलाशयप्रान्ते पार्श्व इति केशव । पङ्क- पूरं कर्दमकदम्बम् । [ 'दलदल'] । कलितचरण =खण्डितचरण । युगस्य स्वस्कन्धावसक्तरथाग्रभागस्य । (जुआ) भङ्ग त्रोटनं । निषसाद भूमौ पपात । वर्धमान =तन्नामा श्रेष्ठी। विपाद-दु खम् , प्रयाणभङ्गं-अवस्थानम् । ['पडाव डालना'] । तं श्रेष्टिनम् । सार्थे भवा: सार्थिका , तै सहचरैर्वणिग्जनै । ['साथी' ] । 'सार्थस्त्वर्थवति त्रिषु । समूहभेदे तु पुमान् प्राणिना'मिति केशव । बहपाये-नानाशकातकप्रदे । सन्देहे प्राणसङ्कटे। नियोजित =निक्षिप्त । स्वल्पात् -स्वल्पमुपेक्ष्य । ल्यब्लोपे पञ्चमी ॥ १९॥ असौ वर्द्धमान । तत् नियुज्य निश्चित्य स्वानुयायिजनोक्तम् । अवधार्य युक्त'-