पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

- तदनास्ति किञ्चिन्मे वक्तव्यमेव, तवधार्य यथोक्तमनुष्ठीय- ताम् ।' मेघवर्ण आह-तत्समादेशय, तवादेशो नान्यथा कर्तव्यः' । स्थिरजीवी प्राह-वत्स! समाकर्णय तर्हि सामा- दीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः। तन्मां-विपक्ष- भूतं कृत्वाऽतिनिष्ठुरवचनैर्निर्भस्य॑-यथा विपक्षप्रणिधीनां प्रत्ययो भवति तथा-समाहतरुधिरैरालिप्याऽस्यैव न्यग्रोधस्याधस्ता- प्रक्षिप्य [मां] गम्यतां पर्वतमृष्यमूकं प्रति। तत्रसपरिवारस्तिष्ठ, यावदहं समस्तान्सपत्नान्सुप्रणीतेन विधिना विश्वास्याऽभिमु- खान्कृत्वा कृतार्थो ज्ञातदुर्गमध्यो दिवसेतानन्धतां प्राप्तान ज्ञात्वा व्यापादयामि । ज्ञातं मया सम्यक-नान्यथास्माकं सिद्धिरिति । यतो दुर्गमेतदपसाररहितं केवलं वधाय भविष्यति'। उक्तश्च यतः- अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते। अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥१२०॥ न च त्वया मदर्थ कृपा कार्या । उक्तञ्च- प्राणसमानिष्टान्पालिताँल्लालितानपि । भृत्यान्युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ १२१ ।। पिपीलिकाना बहुत्वात् । क्षतसर्वाङ्ग:-विक्षतसर्वशरीर । पञ्चत्वं-मृत्युम् । अत्र कर्तव्ये कर्मणि । समादेशय कथय। अन्यथा कर्त्तव्य =उल्लडनीय । सामादीन= साम-दान दण्ड-भेदाख्यांश्चतुर उपायान् । निरूपित =स्थिरीकृत । विपक्षभूतं= शत्रुभूतं, विपक्षप्रणिधीना-शत्रुगुप्तचराणाम् , प्रत्यय. विश्वास । समाहतरुधिरै प्रहारनिष्काशितैः शोणितैः। 'आहृतरुधिरैरिति युक्तः पाठः । कुतश्चिदानीतै रुधिरैरिति तदर्थ । सपत्नान् =रिपून् । सुप्रणीतेन=सुविचारितेन । अपसाररहित- पलायनमार्गशून्यम् । नयनीतिविद्धि । दुर्गव्याजेन = दुर्गनाम्ना । दुर्गनामधारकम् । बन्धनं = कारागृहम् ॥ कृपा कथमेनं स्वमन्त्रिमुख्य प्राणसंशये योजयामीति दया। इष्टान् प्रियान् । लालितान् सन्तोषितान् (लडाए हुए)। निर्मम सन् शुष्कमिन्धननिव- १ 'अनुमितं मया यत्तदीयदुर्गमपसाररहित भविष्यति' इति पाठो लिखिते। अपि