पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ पञ्चतन्त्रम् [३ काको- - तथा च-- प्राणवद्रक्षयेद्धृत्यान्स्वकायमिव ' पोषयेत् । सदैकदिवसस्याऽर्थे । यत्र स्याद्रिपुसङ्गमः ।। १२२ ।। तत्त्वयाऽहं नात्रविषये प्रतिषेधनीयः।'-इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः। अथाऽन्ये अस्य भृत्याः स्थिरजीविन- मुच्छृङ्खलवचनै ल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेना- भिहिताः-'अहो ! निवर्तध्वं यूयम्, अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि'। इत्यभिधाय तस्योपरि- समारुह्य, लघुभिश्चञ्चप्रहारैस्तं प्रहृत्य, आहतरुधिरेण प्लावयि. त्या, तदुपदिष्टमृष्यमूकपर्वतं सपरिवारो गतः । एतस्मिन्नन्तरे कृकालिकया द्विषत्प्रणिधीभूतया तत्सर्वे मेघ. वर्णस्याऽमात्यव्यसनमुलूकराजस्य निवेदितं, यत्,-तवारिः सम्प्रति भीतः क्वचित्प्रचलितः सपरिवार'-इति । अथोलूकाधिपस्तदाकाऽस्तमनवेलायां सामात्यः सपरि- जनो वायसवधार्थ प्रचलितः। प्राह च-त्वर्यतां! त्वर्यतां! भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते । उक्तञ्च- 'शत्रोः प्रचलने छिद्रमेकमन्यच्च संश्रयम् । कुर्वाणो जायते वश्या व्यग्रत्वे राजसेविनाम्' ।। १२३ ।। एवं ब्रुवाणः समन्तान्न्यग्रोधपादपमधः परिवेष्ट्य व्यवस्थितः। पश्येत् ॥१२१॥ सदा सर्वदा, रक्षयेत् पोषयेच्च, एकदिवसस्य-युद्धदिनोप योगार्थम् । रिपुसङ्गमः शत्रुसमागमः ॥ १२२ ॥ तेन मेघवर्णेन। शुष्ककलह-मिथ्याविवादम्। उच्छृङ्खलवचनैः-उद्दण्ड- वाक्यैः। निग्रह-दण्डम् । लघुभिः अक्रूरैः। प्लावयित्वासमन्ताव्याप्तं कृत्वा। द्विष- प्रणिधीभूतया शत्रुगुप्तचरीभूतया । अमात्यव्यसन मन्त्रिणा कलहरूपममात्य- व्यसनम् । प्रचलित =पलायित । शत्रोरिति । स्थानत्याग एक छिद्रम् , द्वितीयश्च नवीनस्थानसंश्रयरूपं छिद्रम् । तदेवं छिद्रद्वयाच्छत्रुः पलायनपरो वश्यो भवति । राजसेविनाम् राजपुरुषाणाम् । व्यग्रत्वात्-पूर्वस्थानत्यागनवीनस्थानसमाश्रय-