पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ पञ्चतन्त्रम् [२ मित्र- कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोप एव पुरुपस्य परं निधानम् ॥१५९।। सन्तोपामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानासितश्चेतश्च धावताम् ॥१६०॥ पीयूषमिव सन्तोपं पिबतां निर्वृतिः परा। दुःखं निरन्तरं पुंसाससन्तोपवतां पुनः ॥१६१।। निरोधाचेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेधैराच्छन्नाः स्युर्गभस्तयः ॥१६२।। वाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्पयः। वान्छा निवर्तते नाऽर्थः पिपासेवाऽग्निसेवनैः ॥१६॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । स्वापतेयकृते माः कि कि नाम न कुर्वते ? ॥१६४॥ वित्तहा वरन्तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥१६५|| दानेन तुल्यो निधिरस्ति नान्यो लोभाञ्च नान्योऽस्ति रिपुः पृथिव्याम्। विभूषणं शीलसमं न चान्यत्सन्तोषतुल्य धनमस्ति नान्यत्।।१६६।। दारित्र्यस्य परा मूर्तिर्याच्या, न द्रविणाल्पता जरद्वधनः शर्वस्तथापि परमेश्वरः ॥१६७ ।। धर्मार्थ यस्य निधानं सुगुप्तं धनम् । पीयूषम् अमृतम् । पिबता=धारयताम् । परा-उत्कृष्टा । निर्वृत्ति =सुखम् ॥ १६१॥ मनसो निरोधे कृते सर्वेन्द्रियनिरोध स्वत एव भवति । गभस्तयः किरणा ॥ १६२॥ वान्छाविच्छेदनम् आशात्याग । स्वास्थ्य-नीरोगताम् । शान्ता वशीकृतेन्द्रियग्रामा । अथें =धनै । धनैराशा न 'निवर्तते, न हि वहिना पिपासा शान्तिईष्टेति भाव ॥ १६३ ॥ उच्चकैः नितरा- मेव। स्वापतेयं धनम् । किं कि न कुर्वते-अकृत्यं सर्वमपि कुर्वन्त्येवेत्यर्थ. । ॥ १६४ ॥ न शुभावहाधनेच्छा न शुभदा । तस्यापि न शुभावहा'-इति पाठा- न्तरम् ॥ १६५॥ परा मूर्तिः द्वितीयं रूपम् । न द्रविणाल्पता-नाल्पधनता । २ अत्र, पराभूति' रिति मुद्रितः पाठ आसीत् ।