पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् *

२२५ सकृत्कन्दुकपातेन पतत्यार्यः पतन्नपि । तथा पतति मूर्खस्तु मृत्पिण्डपतनं यथा ॥ १६८ ॥ एवं ज्ञात्वा भद्र ! त्वया सन्तोषः कार्य.'। इतिमन्थरकवचन- माकर्ण्य वायस आह-'मन्थरको यदेवं वदति तत्त्वया चित्ते न -कर्तव्यम् । अथवा साध्विमुच्यते- सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६९ ॥ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता, अन्ये स्युर्नामधारकाः' ।। १७० ।। अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धकत्रासित- स्तस्मिन्नेव सरसि प्रविष्टः। अथाऽऽयान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः। हिरण्यको निकटवर्तिनं शरस्तम्वं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाच- 'एोहि सखे ! मन्थरक! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः, तस्य शब्दोऽयं, न मानुषसम्भवः' इति । तच्छुत्वा मन्थरको देशकालोचितमाह-'भो लघुपतनक। यथायं मृगो दृश्यते-प्रभूतमुच्छासमुहहन्नद्धान्तदृष्ट्या पृष्ठतोऽ. वलोकयति,-तन्न तृषार्त एषः, नूनं लुब्धकत्रासितः। तज्ज्ञाय- तामस्य पृष्ठे लुब्धका आगच्छन्ति, न वा ?-इति । उक्तञ्च- जरद्वधन =जीर्णवृषभमानधन । शर्व =शिवः । अतो याच्जैव दारिद्रयं, नाल्प- धनता । अल्पधनस्यापि हि अयाचकस्य शिवस्य परमेश्वरत्वादिति भावः ॥१६७ ॥ आर्य सज्जन । पतन्नपि विपदमनुभवन्नपि। कन्दुकपातेनेति। कन्दुकवत्पतति- पुनरुत्तिष्ठति च द्रागेवेत्यर्थ । मूर्खस्तु-मृत्पिण्डवत्-पतित पुनर्नोन्नतिमश्नुते इत्याशय.॥ १६८॥ नामधारका =मित्रनाममात्रधारका , न वस्तुत सुहृद ॥१७०॥ लुब्धका- व्याध.। सरसि-सरोवरपरिसरभूमौ । शरस्तम्बम् शरतृणगुल्मम् । ('पानी' १ एवम् अप्रियम् । २ 'क्रोधो न विधेय ' । .