पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र- आलिङ्गय माम् , चिरकालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तः प्रविष्टः । उक्तञ्च- 'यस्य न ज्ञायते वीर्य न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्या'दित्युवाच बृहस्पतिः ।। ६३ ।। एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुच्यते- अमृतस्य प्रवाहैः किं कायक्षालनसम्मवै. ? । चिरान्मित्रपरिष्वङ्गो योऽसौ सूल्यविवर्जितः ।। ६४ ।। एवं द्वावपि तौ विहितालिङ्गनौ परम्परं पुलकितशरीरी वृक्षाधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् । हिरण्यको- ऽपि मन्थरकस्य प्रणामं कृत्वा वायसारयाशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह-भोः । को. -ऽयं सूपकः ? कस्मात्यया भक्ष्यभूतोऽपि पृष्टमारोप्याऽऽनोतः ?' तन्नात्र स्वल्पकारणेन भाव्यम् !' । तच्छ्रुत्वा लघुपतनक आह- 'भोः ! हिरण्यको नाम मूपकोऽयं, मम सुहृद् द्वितीयसिव जीवितम् । तत्किवहुना- पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । भूतले रेणको यद्वत्सङ्ख्यया परिवर्जिताः ।। ६५ ।। गुणाः सङ्ख्यापरित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्न' सम्प्राप्तोऽयं तवान्तिकम् ॥६६॥ निपुणतरं-नितराम् । (अच्छी तरह से )। चिरकालात्-चिरवियोगा- खेतोः। वीर्य-पराक्रम । विचेष्टितं व्यापारादि ॥३॥ कायक्षालनसम्भव शरीरमात्रसुखदै ॥ ६४ ॥ विहितालिङ्गौ-कृतपरिप्लहौ। पुलकितगरीरा- रोमाञ्चितदेही । आत्मन -चरित्रस्य-शीलस्य, आचरणस्य । वृत्तान्त वार्ताम् । वायलाभ्याशे काकसमीपे । भूतले रेणव: वालुकाकणा । 'मिकतारेणवो यद'- दिति पाठान्तरम्। परं-किन्तु-सर्वगणवानप्यय महात्मा। निवद-गोक, ग्लानिन । आपन्न =उपगत सन् । अयं-हिरण्यक.। तव कच्छपस्य। अन्तिक-गर्माणम्।।३६॥