पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

संम्पातादिकानष्टावुड्डीनगतिविशेषान्वेनि । तत्समारोह मम पृष्ठम् । येन सुखेन त्वां तत्सरः प्रापयामि ।' हिरण्यक आह-'उड्डीनानां नामानि श्रोतुमिच्छामि ।' स आह- 'सम्पातञ्च विपातञ्च महापातं निपातनम् । वर्क तिर्यक्तथा चोर्ध्वमष्ठमं लघुसंज्ञकम्' ।। ६० ।। तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोऽपि शनैः--शनैःस्तमादाय सम्पातोड्डयनेन प्रस्थितः सन् क्रमेण तत्सरः प्राप्तः। ततो लघुपतनकं मुपकाधिष्ठितं विलोक्य दूरतोऽपि देश- कालवित्-'असामान्यकाकोऽय' मिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः। लघुपतनकोऽपि तोरस्थतरुकोटरे हिरण्यकं मुक्त्वा शाखा- ग्रमारुह्य तारस्वरेण प्रोवाच-'भो मन्थरक ! आगच्छ आगच्छ, तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समा-- यातः । तदागत्यालिङ्गय माम् । उक्तञ्च- किं चन्दनैः सकर्पूरैस्तुहिने. किं च शीतलैः १ । सर्वे ते मित्रगात्रस्य कलां नार्हन्ति पोडशीम् ॥ ६१ ॥ तथा च- केनामृतमिदं सृष्टं 'मित्र'मित्यक्षरद्वयम् । आपदा च परित्राणं शोकसन्तापभेपजम् ॥६२ ।। तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य पुल- किततनुरानन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच-एह्येहि मित्र ! पलायनाद्देशभङ्गम्॥५७॥ उड्डीनगतिः-विहायसा गमनम् । ('उडान')। असामान्य- काक =विशिष्टोऽयं काक । मुक्त्वा संस्थाप्य। तुहिनै =तुपारे ('वर्फ')। परित्राणं रक्षणम् । शोकाख्यस्य सन्तापस्य-रोगस्य शोकसन्तापयोर्वा-भेषजम् औषधम्॥६२ 'सम्पातादिकान्यष्टावुद्धयनानी'ति पा० ।