पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१६७ पुरेऽप्रतिपिद्धप्रसरोऽतिविश्वासस्थानमभूत् । एकदा राज्ञो निद्रागतस्य वानरे व्यञ्जनं नीत्वा वायुं विधति राज्ञो वक्षः- स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुनिपिध्यमानापि पुनः पुनस्तत्रैवोपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खगमादाय तस्या उपरि प्रहारो विहितः। ततो मक्षिकोड्डीय गता तेन शितधारणाऽसिना राज्ञो वक्षो द्विधा जातं, राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूल्ऽनुचरो न रक्षणीयः। अपरम्-एकस्मिनगरे कोऽपि विप्रो महाविद्वान्-परं पूर्व- जन्मयोगेन चौरो वर्तते। स तस्मिन्पुरेऽन्यदेशादागतांश्चतुरो विप्रान्वहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-'अहो ! केनोपायेनैपां धनं लभे?' । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेपां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्वि- दमुच्यते- असती भवति सलज्जा क्षारं नीरञ्च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ४५१ ।। अथ तस्मिन्सेवां कुर्वति तैविप्रैः सर्ववस्तूनि विक्रीय बहु- मूल्यानि रत्नानि क्रीतानि । ततस्तानि जवामध्ये तत्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्तविप्रस्ता- विप्रान् गन्तुमुद्यतान्प्रेक्ष्य चिन्ताव्याकुलितमनाः सञ्जातः । 'अहो ! धनमतन्न किंचिन्मम चटितम् । अथैभिः सह यामि, पथि क्वापि विपं दत्त्वैतान्निहत्य सर्वरत्नानि गृह्णामि ।'- -इति विचिन्त्य तेपामग्रेसकरुणं विलप्यैवमाह-'भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यता, तन्मे मनो भवद्भिः सह अगसेवक =शरीररक्षक । अप्रतिपिद्ध प्रसरो यस्यासौ तथा अनवरुद्ध- गमन । तत्रैव वक्षसि । तस्या =मक्षिकाया । पुर: अग्रे। तत्समक्ष पश्यतश्चौरस्य पुरत । चटितम् हस्ते लग्नम् ।