पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मैं पञ्चतन्त्रम् * [१ मित्र- 7 उक्तञ्च- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्याऽपगमे प्रशाम्यति । अकारणद्वेपपरो हि यो भवेत्कथं नरस्तं परितोपयिष्यति ? ॥३०६।। अहो ! साधु चेदमुच्यते- भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां सेवासंव्यवहारतत्त्वविदुपां द्रोहच्युतानामपि । व्यापत्तिः स्खलितान्तरेपुनियता सिद्धिर्भवेद्वा न वा तस्मादम्बुपतेरिवाऽवनिपतेः सेवा सदाऽऽशङ्किनी।।३०७|| तथा च- भावस्निग्धैरुपकृतमपि द्वेष्यतां याति किञ्चि- च्छोठ्यादन्यैरपकृतमपि प्रीतिमेवोपैंयाति । दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।। ३०८॥ प्रसादयामि अनुनयादिभि प्रसन्नं करोमि। प्रसाद प्रसन्नताम् । निमित्त कारणम् । उद्दिश्य अनुसन्धाय । तस्य कोपकारणस्य । अपगमे नाशे। प्रशाम्यति-प्रसी- दति । कथमिति । न कथमपीत्यर्थ । सिहश्चाऽकारणद्वेषोति भाव ॥ ३०६ ॥ परेति । परहितकारिव्यापारप्रसक्ताना, सेवाकर्ममर्मज्ञानाम्, सर्वभूतहितै- षिणा, स्खलितान्तरेषु अल्पीयस्यामपि त्रुटौ। व्यापत्ति =विपत्ति । नियता- निश्चितैव । सिद्धि =सम्पदादिलाभस्तु, भवेद्वा, न वा भवेत्-न निश्चय । अम्वु- पतेरिव-समुद्रस्येव (भक्ताना' मित्यादिविशेषणानि समुद्रपक्षेऽपि योज्यानि )। अवनिपते =भूतपतेरपि । सेवा अधिकार । सदाशकिनी-शकातङ्ककलकितै- वेत्यर्थ ॥ ३०७ ॥ भावस्निग्धैरुपकृतमपि आराधितमपि, राज्ञा किञ्चिन्मन. उपकारिणि द्वेष्यता. मेव-द्वपमेव धत्ते। शाठ्यादन्यैरपकृतमपि च किञ्चिद्राज्ञा मन. प्रीति यातीत्यर्थ । 'द्वेपमायाति' इति तु युक्त पाठ । यद्वा-लोके-भावस्निग्धैः स्नेहास्कन्नमानसै- भृत्यै । उपकृतमपि अविगणय्य राजा द्वेषपरो भवति, केषाञ्चित् अनुपकृतमपि प्रीयये एव राज्ञो भवति । दुराराधनीयत्वाद्राज्ञश्चित्तानामित्यर्थ ॥ ३०८ ॥ १ स्निग्धैरेव पकृतिशतैर्वृष्यतामेति कश्चिच्छाठ्यादन्यैरपकृतिशतैः प्रीतिमेवोपयाति । २. 'लोके साक्षादन्यै रिति पा० । ३ 'प्रीतये' इति पाठा० ।