पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

११५ तत्परिज्ञातं मया यत्प्रसादमसहमानैः समोपवर्तिभिरेष पिङ्ग- लकः प्रकोपितः, तेनायं ममाऽदोषस्याप्येवं वदति । उक्तञ्च- प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः। सपत्न्य इव सङ्घद्धा सपन्या' सुकृतैरपि ॥३०९ ॥ भवति चैव-यद्गुणवत्सु समीपवर्तिषु गुणहीनानां न प्रसादो भवति । उक्तञ्च- गुणवत्तरपात्रेण च्छाद्यन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥ ३१०॥ दमनक आह-'भो मित्र ! यद्येवं तन्नास्ति ते भयम्, प्रकोपि- तोऽपि स दुर्जनैस्तव वचनरचनया प्रसादं यास्यति । स आह-भोः ! न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां , मध्ये वस्तुं न शक्यते। उपायान्तरं विधाय ते नूनं नन्ति । उक्तञ्च-बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥ ३११॥ दमनक आह-कथमेतत् ? । सोऽब्रवीत्- ११. उष्ट्रकाकादिकथा कस्मिश्चिद्वनोद्देशे मदोत्कटो नाम सिंह प्रतिवसति स्म । प्रमाद-मयि राजकृपाम् । अदोषस्यापि-सम्वन्धे' इति शेष । सपन्या. सुकृतेरपि-विनयपरचित्तानुवर्तनादिगुणैरपि-संक्रुद्धा =सपल्य इव-राजभृत्याः साधोरपि राजसेवकस्योन्नति राजप्रसादञ्च न सहन्ते-इत्याशय । सपन्यो हि ( स्वसपत्नीपु स्वामिप्रसाद दृष्ट्वा ) गुणवतीष्वपि स्वसपत्नीषु द्रोहमेवाचरन्ति न स्नेहम् ॥ ३०९ ॥ गुणहीनानाम्-'उपरि राज' इति शेप । गुणवत्तरपात्रेण= उत्कृष्टगुणशालिना। सामान्यगुणिना गुणा छाद्यन्ते अभिभूयन्ते। यतो रात्री दीपकान्तिर्भाति, न प्रभाते रवावुदिते सति इति भाव ॥ ३१० ॥ यद्येव यदि त्वं न दोपी । वचनरचनया-वाक्चातुर्यादिगुणैर्मुग्ध , प्रसन्नताम् । ते दुर्जना । मयोपजीविनः कूटकपटरचनाकुशला , दाम्भिकाः। कृत्यम्-करणीयमुचितम् । अकृत्यम्-अनुचितमपि ॥ ३११॥ वनोद्देशे वन- F प्रसाद-3