पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद:]

  • अभिनवराजलक्ष्मीविराजितम् *

. तन्मात्रं च स्मृतं सारं यदर्थ यतते जनः ।। २७७ ॥ यद्येवं न भवेल्लोके कर्म जिह्वाप्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्य चिदशगोऽथवा ।। २७८ ॥ यदसत्यं वदेन्मयो यद्वाऽसेव्यं च सेवते । यद्गच्छति विदेशं च तत्सर्वमुद्रार्थत. ॥ २७९ ।। तन्मया गृहागतेन बुभुक्षया पीड्यमानेन त्वत्सकाशाद्भोजन- मर्थनीयं, तन्न त्वयैकाकिन्याऽस्य भूपते रक्तभोजनं कर्तु गुज्यते।' तच्छ्रुत्वा मन्दविसर्पिण्याह-'भो मत्कुण | अहमस्य नृपते- निद्रावशं गतस्य रक्तमास्वादयामि, पुनस्त्वमग्निमुखश्चपलश्च, तद्यदि मया सह रक्तपानं करोषि-तत्तिष्ठ,अभीष्टतरं रक्तमास्वादय । सोऽब्रवीत् 'भगवति । एवं करिष्यामि, यावत्त्वं नास्वादयसि प्रथमं नृपरक्तम्, तावन्मम देवगुरुकृतः शपथः स्यात्, यदि तदास्वादयामि ।' एवं तयोःपरस्परं वदतोः स राजातच्छयनमासाद्य प्रसुप्तः। अथाऽसौ मत्कुणो जिह्वालौल्य-प्रकृष्टौत्सुक्याजाग्रतमपि तं महीपतिमदशत् । अथवा साध्विदमुच्यते- स्वभावो नोपदेशेन 'शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ।। २८० ।। जिह्वासौख्यमानं । सारं जगति सारभूतम् । यदर्थ-जिह्वासौख्यार्थम , लोक = -सकलोऽपि जन । यतते प्रयतते । जिहाप्रतुष्टिदं जिह्वासौख्यप्रदम् । वशग = परतन्त्र । वदेत् वदति । सम्भावनाया लिड । मर्त्य =मनुप्य । असेव्य-नीचम् उदरपूर्तये कुरुते ॥ २७९ ॥ गृहागतेन- अतिथिभूतेन । अर्थनीयम् प्रार्थनीयम् । अग्निमुख =तीक्ष्ण- विदादिष्ट्र । अभीष्टतर-मधुरम्। एव-यथा त्व भाषसे तथैव । देवगुरुकृत शपथ = 'देवगुरु शापेनाह दग्ध स्या यदि प्रथममह नृपरक्तमास्वादयेयम्'-इत्येवमादि. शपथ । तत् राजरक्तम् । जिह्वाया लौल्यं चाञ्चल्य, तेन सहितं यत् प्रकृष्टमौ- त्सुक्यम, औत्कण्ठ्य, तस्मात् । 'जिह्वालौत्या' दिति व्यस्तोऽपि पाठ । अदशत्=