पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ) (ग) कस्ते दोषः, यत. सर्वोऽपि जनो लोभेन विडम्वितो वाध्यते। (घ) यो लौल्यात्कर्म कुरुते नैवावेक्षते चोदर्क स विडम्वनामवाप्नोति । (ड) शालिहोत्रेण पुनरेतदुक्तं यद्वानरवसयाऽश्वानां वह्निदाहदोषः प्रशा. म्यति। १९३५ पञ्चतन्त्रेऽपरीक्षितकारके प्रश्नाः १ अधोलिखितसन्दर्भयोः शुद्धहिन्दीभाषायामनुवादः कार्यः- (क) कस्मिश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित् पटकर्माणि कुर्वतः सर्वपटकर्मकाष्ठानि भग्नानि । तत. स कुठार- मादाय वने काष्ठार्थ गत । स च समुद्रतटं यावद् भ्रमन् प्रयातः, ततश्च तत्र शिशपापादपस्तेन दृष्टः। ततश्चिन्तितवान्' 'महानयं वृक्षो दृश्यते । तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति।' इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चिद्यन्तरः समाश्रित आसीत् । अथ तेनाभिहितम्-“भो ! मदाश्रयोऽयं पादपः सर्वथा रक्षणीयः, यतोऽ. हमत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनाच्छीतवायुनाप्यायित.'। कौलिक आह-"भोः किमहं करोमि। दारुसामग्री विना मे कुटुम्ब बुभु- क्षया पीड्यते। तस्मादन्यत्र शीघ्र गम्यताम् । अहमेन कर्तयिष्यामि।" ३३ (ख) कस्मिश्चिदविष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म। स च प्रयो- जनवशादामे प्रस्थित. स्वमात्राऽभिहित.-'यद्वत्स ! कथमेकाकी ब्रजसि । तदन्विष्यता कश्चिद् द्वितीयः। स आह-"अम्ब ! मा भैपी. । निरुपद्रवो- ऽयं मार्गः, कार्यवशादेकाको गमिष्यामि" । अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात्कर्कटमादाय मात्राऽभिहित -"वत्स! अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायो भवतु । तदेनं गृहीत्वा गच्छ । सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्या तं संगृह्य कर्पूरपुटिकामध्ये निधाय पात्रमध्ये संस्थाप्य शीघ्रं प्रस्थितः। अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कच्चिन्मार्गस्थं वृक्षमासाद्य तत्रैव सुप्तः।