चेन्न । विपक्षे बाघकाभावात् । अनियतहेतुकतापत्तिरिति चेन्न ।
गुणनाशस्याश्रयनाशविरोधिभ्यां नाशवदस्याप्युपपत्तेः,
अन्यथा द्वित्त्वस्याप्याश्रयनाशनश्यतनियमापत्तेः । शिष्टं शास्त्रे ॥
इति पाकजम् ॥
न्यायलीलावतीकण्ठाभरणम्
हरति नेति । अनियतेति । द्रव्यनाशपूर्वकमेव कार्य्यं न नक्ष्यति, क्वचिदसमवायिनाशः कचिच्च समवायिनाशः कारणमित्यनियम इत्यर्थः । दृष्टान्तेनानिय तहेतुकत्वमुपपादयति गुणनाशस्येति । निमित्तकारणेतरगुणनाशत्वं द्रव्यनाशं प्रति कारणतावच्छेदकम्, यद्वा विद्यमानाश्रयवदुद्रव्य नाशं प्रत्यसमवायिकारणनाशस्तदन्यद्रव्यनाशं प्रति समवायि कारणनाश इति नानिय तहेतुकत्वमिति भावः । अन्यथेति । यदि दृष्टानु-
न्यायलीलावतीप्रकाशः
द्रव्यनाशे समवाय्यसमवायिनाशयोः कारणत्वेऽननुगमः, अभावे चावान्तरजातेरभावादित्यसमवायिकारणनाश एवानुगत कारणं कल्प्यते, यत्रापि समवायिकारणनाशः तत्रासमवायिकरणनाशस्यावक्ष्यकत्वादित्यामसन्धायाह तत्रेति । विपक्ष इति । समचायिकारणनाशस्यापि कार्यद्रव्यनाशं प्रति हेतुत्वसम्मवादित्यर्थः । आक्षेप्ता स्वाभिसन्धिमुद्घाटयति अनियतेति । नानियतहेतुकत्वं विद्यमानाश्रयकद्रव्यनाशेऽसमवायिकारणनाशो हेतुः, एवं सासमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयद्रव्यनाशः कारणमित्यभिप्रेत्याह गुणनाशस्येति । यदि च दृष्टानुसारिण्येव कल्पना, तदा रूपादिनाशं प्रत्याश्रयनाशस्य कार णत्वावधारणात् द्वित्वादिनाशेऽपि तदेव कारणं कल्प्येतेत्याह अन्यथेति ॥
न्यायलीलावतीप्रकाशविवृतिः
इत्यर्थः । विद्यमानाश्रयकेति । अव्यवहितप्राक्कालाविद्यमानाश्रयकद्रव्यनाशेऽसमवायिनाश एवमव्यवहितप्राक्कालविद्यमानासमवायिकद्रव्यनाशे समवायिनाशो हेतुरित्यर्थः । उभयनाशोत्तरभावितत्तद्द्नाशव्यक्तौ च तदुभयनाशो हेतुरनुगत एवेति भावः । वस्तुतः समवायिकारणनाशोत्तरभाविद्रव्यनाशे समवायिनाश एवमसमवायिनाशोत्तरद्रव्यनाशे चासमवायिनाश एवमुभयनाशजन्येप्यु भय कार्यतावच्छेदकसत्त्वादुभयजन्यत्त्वमविकलम् । वयं तु गुणकर्मादिनाशस्थले सम-