व्यायलीलावती चेन्न । विपक्षे बाघकाभावात् | अनियतहेतुकतापत्तिरिति चेन्न । गुणनाशस्याश्रयनाशविरोधिभ्यां नाशवदस्याप्युपपत्तेः, अ- न्यथा द्विवस्याप्याश्रयनाशनाश्यतानियमापत्तेः । शिष्टं शास्त्रे || इति पाकजम् ॥ न्यायलीलावतीकण्ठाभरणम् हरति नेति । अनियतेति । द्रव्यनाशपूर्वकमेव कार्य न नश्यति, क्वचिद- समवायिनाशः कचिच्च समवायिनाशः कारणमित्यनियम इत्यर्थः । दृष्टान्तेनानिय तहेतुकत्वमुपपादयति गुणनाशस्येति । निमित्तकारणेतरगु- णनाशत्वं द्रव्यनाशं प्रति कारणतावच्छेदकम्, यद्वा विद्यमानाश्रयव. दुद्रव्य नाशं प्रत्यसमवायिकारणनाशस्तदन्यद्रव्यनाशं प्रति समवायि कारणनाश इति नानिय तहेतुकत्वमिति भावः । अन्यथेति । यदि दृष्टानु न्यायलीलावतीप्रकाशः द्रव्यनाशे समवाय्यसमवायिनाशयोः कारणत्वेऽननुगमः, अभावे चावान्तरजातेरभावादित्यसमवायिकारणनाश एवानुगत कारणं क लप्यते, यत्रापि समवायिकारणनाशः तत्रासमवायिकरणनाशस्यावश्य कत्वादित्यामसन्धायाह तत्रेति । विपक्ष इति । समचायिकारणनाशस्यापि कार्यद्रव्यनाशं प्रति हेतुत्वसम्मवादित्यर्थः । आक्षेप्ता स्वाभिसन्धिमु. द्घाटयति अनियतेति । नानियतहेतुकत्वं विद्यमानाश्रयकद्रव्यनाशेऽस. मवायिकारणनाशो हेतुः, एवं सासमवायिकारणकद्रव्यनाशे प्रति. योग्याश्रयद्रव्यनाशः कारणमित्यभिप्रेत्याह गुणनाशस्येति । यदि च दृष्टानुसारिण्येव कल्पना, तदा रूपादिनाशं प्रत्याश्रयनाशस्य कार णत्वावधारणात् द्वित्वादिनाशेऽपि तदेव कारणं कल्प्येतेत्याह अन्यथेति ॥ न्यायलीलावतीप्रकाशविवृतिः इत्यर्थः । विद्यमानाश्रयकेति । अव्यवहितप्राक्कालाविद्यमानाश्रयकद्रव्यना शेऽसमवायिनाश एवमव्यवहितप्राकालविद्यमानासमवायिकद्रव्य. नाशे समवायिनाशो हेतुरित्यर्थः । उभयनाशोत्तरभावितत्तद्व्यनाश. व्यक्तौ च तदुभयनाशो हेतुरनुगत एवेति भावः । वस्तुतः समवायि. कारणनाशोत्तरभाविद्रव्यनाशे समवायिनाश एवमसमवायिनाशोच. द्रव्यनाशे चासमवायिनाश एवमुभयनाशजन्येप्यु भय कार्यतावच्छे. वकसत्त्वादुभयजन्यत्त्वमविकलम् वयं तु गुणकर्मादिनाशस्थळे सम.
पृष्ठम्:न्यायलीलावती.djvu/९२०
दिखावट