पृष्ठम्:न्यायलीलावती.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

अन्य वैशिष्ट्ये प्रमाणमाह-कथमन्यथेति । भावाभावयोरिति । संयोगसमवायाभ्यां वैशिष्ट्यं तेषु न हि तो भावाभाववृत्ती, तथा च घटाभाववद्भूतलमिति प्रतीतिरेव वैशिष्ट्ये प्रमाणमित्यर्थः । ननु वैशिष्ट्येऽप्यभाववैशिष्ट्यं प्रतीयते तत्र च वैशिष्ट्यान्तराभ्युपगमेऽनवस्था स्यादिति तत्र स्वरूपसम्बन्धेनैव वैशिष्टयव्यवहार इति प्राथमिको-

न्यायलीलावतीप्रकाशः

पूर्वोक्तयुक्तरित्यर्थः । शातताऽपि भावान्तरमित्यनुषज्यते, ज्ञातो घट इति विशिष्टप्रतीतेर्विशेषणविशेष्यसम्बन्धं[१] विनानुपपत्तेरिति भावः । कथमन्यथेति । घटाभाववद्भूतलमिति विशिष्टधीर्विशेषणविशेष्यसम्बन्धनिमित्ता यथार्थविशिष्टज्ञानत्वात् दण्डीतिज्ञानवदिति संयोगसमवायबाधे तदतिरिक्तसम्बन्धो वैशिष्ट्यमित्यर्थः । ननु वैशिष्टये वैशिष्टयाभ्युपगमेऽनवस्थानाद्यथा प्रमेयत्वादिवैशिष्टयधी: स्व- [२]

न्यायलीलावतीप्रकाशविवृतिः

भिधानाद्विरुद्धमिति युक्तिसूचनेनापास्तमित्यर्थः । भावान्तरमिति । षडतिरिक्तेऽयं भावत्वाश्रय इत्यर्थः । आश्रयासिद्धिनिरासायाह-ज्ञातो घट इति । यथार्थेति प्रमेत्यर्थः । तेन नेश्वरज्ञाने मन्मते व्यभिचारः, तस्य प्रमाऽप्रमाऽ[३]न्यत्वात् । यत्तु जन्यपदेन तद्वारणमिति तन्न, परमते व्यावृत्यप्रसिध्या व्यर्थविशेषणत्वात् । न च विशिष्टज्ञानत्वं वैशिष्ट्यविषयकज्ञानत्वमिति साध्याविशेष इति वाच्यम् स्वरूपसम्बधात्मकवैशिष्टयमादाय हेतोरुभयसिद्धत्वात् । नचैवं तेनैवार्थान्तरंविशेषणविशेष्यान्यसम्बन्धस्य साध्यत्वात् । न चैवं बहुत्र व्यभिचार इति वाच्यम्, तेन तत्र सर्वत्र वैशिष्टयस्वीकारात। विशेषणज्ञानजन्यत्वमेव वा विशिष्टज्ञानत्वमिति दिक् ।

 [प्रमेयत्वादीति । प्रमाविषयत्वरूपस्य प्रमेयत्वस्य प्रमावैशिष्टयरूपत्वादिति भावः।] [४]


  1. विशेषणं विनति वक्तव्ये विशेष्यसम्बन्धयाराभधानं दृष्टान्तार्थतया। तथा च यथा विशेव्यसम्बन्धयोरभावे न विशिष्टधास्तथा विशेषणाभावेऽपीत्यर्थः । विशेषणाभावे विशेषणविशेष्ययोः सम्बन्धस्याप्यभावात् तदधीनाया विशिष्टप्रतीतरप्यनुपपत्तेरिति पार्थः । इति दीधितिः ।
  2. -
  3. प्रमान्यत्वादिनि पाठान्तरम् ।
  4. [ ] एतन्मध्यस्थ पाठो द्वितीयादर्शपुस्तके नास्ति ।