पृष्ठम्:न्यायलीलावती.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती

न द्रव्यं [१]गुणवृत्तित्वाद् गुणकर्मबहिष्कृता ।
सामान्यादिषु सत्त्वेन सिद्धा भावान्तरं हि सा ॥
अत एव ज्ञाततापि वैशिष्टयं च । कथमन्यथा भावाभाव


न्यायलीलावतीकण्ठाभरणम्

गव्याघात इत्यर्थः। द्रव्याद्यनन्तर्भाव शक्तेराह-न द्रव्यमिति । सामान्यादिवृत्तित्वे सकलपदार्थवैधर्म्यें सत्येव द्रव्यगुणकर्मवैधर्म्ये गुणवृत्तित्वमप्युक्तम् । सूचितमीमांसकयुक्तीनामेव सङ्ग्रहाय श्लोकोऽपि। शातता वैशिष्ट्यं च यथा भट्टानां तथास्माकमपि, तथा च तदसङ्ग्रहेऽपि विभागव्याघात इत्याह-अतएवेति । भावान्तरमित्यनुषज्यते । शाततायां च ज्ञातो घट इत्यादिप्रतीतिर्मानं स्फुटमिति तदुल्ल

न्यायलीलावतीप्रकाशः

तेन तदुक्तयुक्तिः सूचितेति न सङ्ग्रहश्लोकत्वविरोधः । अत एवेति ।

न्यायलीलावतीप्रकाशविवृत्तिः

भावमादायासम्भव इति कादाचित्कपदम् । न च प्रागभावगर्भमेव सम्यक् , तदपेक्षयास्य लघुत्वात् । न च महाप्रलये लक्षणद्वयमतिप्रसक्तमिति वाच्यम् , लीलावतीकारेण तदनभ्युपगमात् । मतान्तरे तु कालोपाधिपदस्यैव तदन्यपरत्वमिति न प्रथमलक्षणातिप्रसक्तिः। कादाचित्काभावपदं च प्रागभावपरमिति न द्वितीयलक्षणातिव्या. प्तिः । न च द्वितीयलक्षणे तथा सति महाप्रलयाव्यवहितपूर्वक्षणेऽ व्याप्तिः स्वाधेयभावप्रतियोगिकप्रागभावानधिकरणत्वस्य विवक्षितत्वात् । न चैवं कादाचित्काभावगर्भतयैव सम्यक् प्रागभावगर्भत्वेऽ प्यदोषात्। प्रागभावत्वस्य गन्धानाधारसमयवृत्त्यभावत्वरूपतया कादाचित्कत्वाघटितत्वादिति दिक् । ननु भवतः शक्त्यनभ्युपगमात् तामादाय विभागव्याघातदेशनानुपपनेत्यत आह-यथेति । ययां युक्त्येत्यर्थः । संग्रहेति । सङ्घहत्वं पूर्वोक्तोपनिबन्धनत्वं पूर्वयुक्त्यन-


  1. अन्न च पक्षतावच्छेदकसामानाधिकरण्यमात्रेण साध्यसिद्धरुद्देश्यत्वात् प्रत्याश्रयं शतभिवतया हेतो गासिद्धत्वेऽपि न क्षतिः । संक्तित्वं न द्रव्यत्वांदिव्याप्यं गुणादिवृत्तिवृत्तित्वादित्यत्र 'तात्पीमत्यप्याहुः।