सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२८
न्यायलीलावती


ज्ञानादारभ्याप्पारभन्ते । न च मूर्तानां समानदेशताव्याघातः, अन्यूनानतिरिक्तदेशस्य तथात्वादिति चेत् । न । अन्यून एव


न्यायलीलावतीकण्ठाभरणम्

देशे पटवृत्तिं विरुध्यादेव, तथाच कथमारभ्यारम्भकत्वम् ? यदि

न्यायलीलावतीप्रकाशः

द्रव्यस्य स्वाश्रये द्रव्योत्पत्ति प्रतिबन्धकत्वाच्च, अन्यथा चतुस्तन्तुकादिकाल एव चतुस्तन्तुकाद्यन्तरोत्पत्तिप्रसङ्गः, नच प्रागभावाभावान्नो त्पत्तिः,तैरेव विभक्तैः पुनरारम्भदर्शनाव, एकतन्तुकाङ्गीकारे त्ववच्छेदकान्तरेण तन्त्वंशुसंयोगस्यासमवायिकरणत्वं भवति, भवति ह्यङ्गुली शिरसि शरीरसंयुक्तेत्यनुभवः । यद्वा अंश्ववयत्रसंयोग एवासमवायिकरणम् । न चैवं पटस्यांशुवृत्तितापत्तिः, नहि यावदसमवायिकारणस्याधिकरणं तावत्कार्यस्यापि गुणादौ व्यभिचारात् । न च द्रव्यमिति विशेषणमंश्वधिकरणत्वापादने तत्समवेतासमवेतत्वस्योपाधित्वादित्यभिप्रेत्याह अन्यून एवेति । ननु चान्यूनेप्यनतिरेकमादाय

न्यायलीलावतीप्रकाश विवतिः

रूपस्यैकांशुमात्रवृत्तित्वात्तन्तोश्चांशुद्वयवृत्तित्वातत्रोपाध्यभावादिति भावः । द्रव्यस्येति । तथा प्रतिबन्धकताया न्यूनातिरिक्तदेशकत्वस्य गौरवेणाप्रवेशादिति भावः । अन्यथा चतुस्तन्तुकेति । यद्यपि सहोत्पत्तिप्रसङ्गेन प्रतिबध्यप्रतिबन्धक भावो गतिर्विनिगमकाभावात्तथा चाहष्टादिकमेव प्रतिबन्धकं, तथापि द्वितीयादिक्षणे यत्र चतुस्तन्तुकान्तरोत्पत्तिस्तत्र दृष्टस्य पटस्यैव प्रतिबन्धकत्वं न त्वदृष्टस्य गौरवादितिभावः । ननु तत्रावयवसंयोग एवाऽवयविन्युपचर्यते न त्ववयवावयविनोः संयोगस्तस्याप्राप्तिपूर्वकत्वनियमादित्यरुवेराह यद्वा अंश्ववयबेति । अश्ववयवतन्तुसंयोग इत्यर्थः । स च नानुपपन्नस्तयोरप्राप्तत्वादिति भावः । नचैवमिति । इयं च शङ्का प्रथमकल्पाभिप्रायेण, द्वितीयकल्पे तु अंशुपदं तदवयवपरम् । यद्वा अंशुरूपं यदवयवद्वयं तत्संयोग एवासमवायिकारणं तत्रापि कारणैकार्थप्रत्यासत्तिसत्त्वादिति पूर्वफक्किकार्थः । एवञ्च उभयपक्षसाधारण एवायमाक्षेपः । नहि यावदिति शङ्काया उभयपक्षसाधारण्येऽपि यावदिति विशेषणं प्रथमकल्पाभिप्रायेण, अग्रिमकल्पश्च तह्यतिरेकेणैव साधुः, अत एवोमयसाधारणो गुणादौं व्यभिचार इति ध्येयम् । तत्समवेता-