पृष्ठम्:न्यायलीलावती.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका ।


 केचित्तु गङ्गेशोपाध्यायकृतात् तत्त्वचिन्तामणेः परं विश्वनाथकृत सिद्धान्तमुक्तावल्याः पूर्वं चाध्ययनाध्यापनादौ न्यायलीलावतीनिबन्ध एवं न्यायवैशेषिकप्रकरणग्रन्थेषु प्रचलित आसीदिति पूर्वप्रदर्शितदिन टु केश्चित्सुखीकारकृतवल्लभमतख'ण्ड नदर्शनाकावगम्यतेऽतस्त्रयोदशशताब्दी चतुर्दशशताब्दी वा न्यायलोलावतीकर्तुः समय इति वदन्ति ।

 तदतीवान्याय्यम्, यतः सप्तपदार्थी निबन्धप्रणेतुः शिवादित्यस्योल्लेखात् वैशेषिकदर्शनावलम्बिनो रत्नको शाख्य महा निबन्धकृत प्रतस्योट्टङ्कनास्वीयपञ्चशताधिकैकादशशतसंवत्सरादूर्ध्वं श्रीहर्षसमकालिकतया वा द्वादशशताब्धा अन्तिमे भागे वर्तमानस्य गङ्गशेोपाध्यायस्य तनूजन्मना (1250 A. D. ) त्रयोदशशताब्द्यां वसता वर्धमानोपाध्यायेन प्रकाशाख्यव्याख्यया समलंकृतेयं न्यायलीलावतीत्यत्र न केषाञ्चिदपि वैमत्यम् ।

 वस्तुतस्तुक्तरीत्योदयनवर्धमानयोर्मध्यकाल एव सम्भवत्स्थितिकस्य वल्लभाचार्यस्यान्तरालिक निर्देशार्हसमयावधारणहेतोरभावेऽपि

उदयनबलभद्राभ्यां सप्तशनीशिष्यसोदराभ्यां मे ।
द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥

 इति शृङ्गारसप्तशत्यां गोवर्धनाचार्योक्त्या बलभद्राख्यस्तच्छिष्य एव वल्लभाचार्य इति नाम्ना विख्यातोऽभूदित्यनुमीयते । गोवर्धनाचार्याश्च

ख्यातो गोवर्धनाचार्यो उमापतिधरस्तथा ।
शरणो जयदेवश्च धोयो कविनृपः क्रमात् ।
राज्ञा लक्ष्मणसेनस्य पञ्चरत्नानि संसदि ।

 इति पञ्चरत्नोक्तया लक्ष्मणसेनस्य राज्ञः सभापण्डिता आसन्निति निष्पद्यते । लक्ष्मण सेनसमयस्तु न्यायवार्तिकभूमिकायां म० म० विन्ध्येश्वरीप्रसादद्विवेदिभिः १०२९ शाकाब्दोऽत्रधारितः, तथाच तत्समकालस्य बलभद्रापरनाम्नो वल्लभाचार्यस्यापि एकादशशताब्द्येव काल इति सङ्गच्छते । एवं चाचार्य वल्लभाः मंगेशोपाध्यायसमकालीनास्तत्पूर्वकालीना एव वेति वक्ष्यामः । अत्र च गोवर्धनाचार्यख्य भ्रातोदयनाचार्य एव लक्षणावल्यादिनिबन्धप्रणेता इति न भ्रमितव्यम्, 'तर्काम्बराङ्कप्रमितेष्वि'त्यादिलक्षणावली निर्दिष्टसमरस्यास्य च समयस्य महदन्तरस त्वात् । यतश्च न्यायलीलावतीकर्तुर्वल्लभस्य केवलमाचार्य इति गुरुसम्प्रदायाधिगता बिरुदावली सर्व पुस्तके लभ्यते नैयायिकतया कुशाग्रबुद्धित्वात् रविणोपमितश्च श्री मता गोवर्धनाचार्येणाsतोऽपि न वलभद्रस्य वल्लभत्वसम्भावनायां काचित्क्षतिरिति । पूर्वसति न्यायलीलावतीग्रन्थकर्ता वल्लभाचार्य एकादशशताब्यामेव मिथिलादेशे बभूवेति आधुनिकानां मैथिलविदुषां राद्धान्त एव निरवद्यः प्रतिभाति ।