पृष्ठम्:न्यायलीलावती.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका।


(ग्रन्थरचनाशैली विषयसमालोचनाच)

 ’त्रिविधा चास्य शास्त्रस्य वृत्तिः" इति समानतन्त्राचार्यप्रवरवात्स्यायनमहर्ष्युक्तिं प्रमाणयता वल्लभाचार्येण वैशेषिकसिद्धान्तसिद्धपदार्थानामुद्देशाख्यां लक्षणाख्यां च प्रवृत्तिं प्रशस्तपादभाष्यलक्षणावल्यादिनिबन्धैर्गतार्थां मन्यमानेन परीक्षाख्यैव तार्तीया प्रवृत्तिः प्राधान्येनावलम्बिताऽत्र न्यायलीलावतीनिबन्धे । तत्र च प्रथमे विभागपरिच्छेदे 'षडेय पदार्थाः' (पृ० १० १० १) इत्याधुपक्रमेण पदार्थोद्देशविभागपरीक्षां विधताऽऽचार्येणा(१)भाव(२)तमः- (३)क्षणिक(४)शक्ति(५)ज्ञातता(६)ऽऽधाराधेयभाव(7)सादृश्याख्यानां सप्तपदार्थानामतिरिक्तत्वमाशंक्य यथा पदार्थान्तरत्वखण्डनं प्राचीनशैल्या विहितन्तया नान्यत्र मूलनिबन्धग्रंथेषूपलभ्यत इति स्वयमेव ज्ञास्यन्ति पाठकाः । एवमेवाग्रे 'पृथिव्यादीनां द्रव्यत्वाद् गुणवत्त्वाद्वा भेद' (पृ० ८८ पं०१) इत्याद्युक्त्या पदार्थानां न्यूनत्वमपि संभवतीत्यभिप्रायेण पदार्थोदेशविभागाक्षेपतत्समाधानपरिपाट्यपि वल्लभाचार्याणामेव नान्येषामद्ययावदुपलब्धानां वैशेषिकदर्शननिबन्धकाराणामित्यपि सुव्यक्तम् । द्रव्यविभागपरीक्षायामपि केवलं पृथिव्यादिपरीक्षाक्रम एवं न्यायलीलावतीकारेणावलम्बितो न लक्षणोदेशवर्णनक्रम इत्यपि नूतनमेवान्यनिबन्धेभ्यः । तत्राप्यवयविपरीक्षायां परमाणुपुञ्जवादिबौद्धमतखण्डनप्रकारो व्यासत इहैव यादृगुपलभ्यते नान्यत्र तथा । बहिरिन्द्रियशरीरविषयाणां द्रव्यान्तरत्वाक्षेपाभिप्रायेण द्रव्यविभागपरीक्षा सृष्टिसंहारविधिस्थप्रलयपरीक्षा परमाणूनां द्रव्यान्तरत्वाक्षेपसमाधानपरलीलावतीस्थपरीक्षाप्रकरणं चातीवहृदयङ्गमं नैयायिकसचेतसाम् । एवं भूषणमतखण्डनपूर्वकं प्राचीनार्वाचीनप्रणाल्या कालदिशोः परीक्षायां क्षणिकविज्ञानसन्ततिपक्षनिरासद्वारात्मन इतरभेदसाधने, मनस इतरभेदसाधने च वल्लभाचार्यपरिगृहीता शैली नवीनैव ।

 गुणविभागपरीक्षायामपि द्विवादिसंख्यास्थापने भासर्वज्ञमतखण्डनं दीर्घत्वपरिमाणविशेषस्यास्वीकारो द्विपरत्वप्रतिबन्दीनिरासद्वारा द्विपृथक्त्वव्यवस्थापनमवयववतिना संयोगाभावेनावयविनि संयोगस्य सादेश्यव्यपदेशविषयत्वमानस्यैवाज्याप्यवृत्तित्वव्यवहारनिबन्धनत्वात्संयोगस्यापि वस्तुतो व्याप्यवृत्तित्वमिति च सर्वतन्त्रस्वतन्त्राणां वल्लभाचार्याणां स्वतंत्रं स्वमतमेव । एवं परत्वापरत्वयोः परीक्षायां किरणावलीकारमतनिर्भत्सनं भू षणकारमतस्य कणमक्षपक्षाक्षमामात्रविजृभितत्वप्रदर्शनं चातीव चमत्कारकारि । प्रत्ययमानेषु यथार्थत्वं मन्यमानानां गुरुमततत्ववेदिनां मतस्य निरासोऽन्यथाख्यातिस्थापनं च विपर्ययपरीक्षायां, भूषणमतखण्डनपूर्वकमनध्यवसायस्थापना, स्वप्नाख्याविद्यास्थापनपूर्वक बाह्यार्थभावादिमतखण्डनं, प्रत्यक्षपरोक्षायां सर्वज्ञप्रत्यक्षावधारणप्रक्रिया