कारणौकजातीयत्वेन कार्य
सादृश्यप्रतिबन्धात् । न च कारणैकजातीयत्वात्कार्यैकजातीयतापत्तिः । संयोगविभागयोरेकजातीयतापत्तेः । यस्य यद्विजातीयावस्थासमवेत उत्पन्नः तस्य तदवस्था-
न्यायलीलावतीकण्ठाभरणम्
ननु वेगादीनां चेदैकजात्यं तदा तज्जन्यज्ञानयोरव्यैकजात्पं स्वादित्यत आह नचेति । अन्यथा कर्म्मजन्यतया संयोगविभागयोरव्यैकजात्यं स्यादित्यर्थः । यस्येति सप्तम्यर्थे षष्ठी, तेन वेगजातीयारम्भाच्छरीरादेः कर्म्मारम्भात्तद्विशिष्टे उत्पन्नो वेगो विजातीयारम्भमेव शरं कर्म्मवन्तमेव जनयतीत्यर्थः । कर्म्म यद्यपि संयोगवत्युत्पद्य संयोगवन्तं जन
न्यायलीलावतीप्रकाशः
यस्येति । धर्मिंणः । यद्विजातीयेति । कर्म च यद्यपि संयोगवत्युत्पद्यते संयोगवन्तमेव जनयति, तथापि तस्य गुणपदेन व्यावृत्तिः । कारणलजातीयावस्था च न प्राक्कालीना विवक्षिता किन्तृत्प-
न्यायलीलावती प्रकाश विवृतिः
र्यजनकत्वमित्यर्थः । अत्र प्रथमविशेषणद्वयप्रयोजनमाकर एवं व्य क्तम् । अस्मदादिज्ञानपीश्वरेच्छाजन्यमस्मदादीच्छाजनकं चेति त द्वारणाय समानाधिकरणपदम् । धर्माधर्मयोरप्यनेनैव वारणम्, बीज शब्दवारणं च स्वविजातीयपदेनैव । ज्ञानेनेच्छा तथा च प्रयत्न इति तद्वारणाय सजातीयेति । ज्ञानेनेच्छा तथा चाहटद्वारा ज्ञानं जन्यत इतीच्छावारणाय साक्षादिति । इदं च कारणेऽपि विशेषणमन्यथाऽदृष्टजन्येऽदृष्टसाक्षाज्जनके च यागेऽतिप्रसक्तेः । जनकत्वं च विषयतातिरिक्तरूपेण विवक्षितमन्यथा ज्ञानजन्यायां स्वविषयकज्ञानजनिकेच्छाया मतिप्रस क्त्तेः । यथोक्ते व्यभिचारो नास्त्येवेत्य प्रयोजकत्व परत या व्याचष्टे यथा कारणेति । विजातीयावस्थेति मूलम् । वायुविजातीया. बैस्थेत्यर्थः । ननु स्थितिस्थापकस्य कारणगुणपूर्वक वादाश्रयोत्पत्त्यन न्तरमेवोत्पत्तेः संयोगस्य तत्पूर्वकालता नास्तीत्यत आह कारणसजाती यावस्थेति । कारणजन्यजातीयावस्थेत्यर्थः । किन्तूत्पत्तिकालीनेति । यद्यपि कर्मजः संयोगो न स्थितिस्थापकोत्पत्तिकालेऽपि, तथापि संयोगज एव तथा भविष्यति । वस्तुतः स्वकार्वजननकाले यदवस्थं कारणं तस्य तादवस्थ्यापादकगुणत्वमित्यर्थोऽतो नोक्त्तदोषः । अत्र चोपाधिरेव संस्कारत्वमिति मतं सम्यक, अन्यथा स्थितिस्थापकाव्याप्ते: ।