सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१०
न्यायलीलावती


तद्वदत्रापि जातिभेदोऽपि स्यादिति चेत् । न । असति बाधके


न्यायलीलावतोकण्ठाभरणम्

शब्दमादाय तज्जात्यभ्युपगमे संस्कारत्वं विना शब्दत्वमाद्यशब्दे शब्दत्वं विना संस्कारत्वं वेगादौ दृष्टं भध्यशब्दे संकीर्येतेत्यर्थः । तद्वदनापीति । यथा कर्म्मज्ञानसाधारणा नैका जातिस्तथा वेगभावनासाधारण्यमपि न क्यादित्यर्थः । यथा वा बीजशब्दादिसाधारणा नैका जातिस्तथा संस्कारत्वमपि न स्यादित्यर्थः । शब्दबीजसाधारणजातौ परापरभावानुपपत्तिर्वाधिका प्रकृते तु न तथेत्यत आह असतीति ।

न्यायलीलावतीप्रकाशः

शब्द: शब्दजन्यः शब्दजनकश्च, तथापि बीजे द्रव्यत्वेन संकरापत्तिः, शब्दे च शब्दत्वेन तथा आद्यशब्दे तदभावात्। वस्तुतो बीजं यत्र काण्डजन्यं न बीजजन्यं नापि बीजजनकमङ्कुरस्यैव बीजजन्यत्वात्, एवं ज्ञानमीश्वरेच्छाजन्यमस्मदादीच्छजनकम, तथापीश्वरज्ञाने त न्नास्तीति तत्र ज्ञानत्वेन संकरापत्तिः । ननु धर्माधर्माधीश्वरप्रयत्नजन्यो अस्मदादिप्रयत्नजनकाविति तत्साधारणी सा जातिः स्यात् । न वा कारणसजातीय कार्यजनकत्वं तज्जातिनियम्यं तज्जात्यभावेऽपि बोजशब्दयोस्तस्वात् । अत्राहु | एकवृत्तिस्वविजातीय समानाधिकरणकारणलजातीय कार्य साक्षाज्जतकत्वं तज्जातिव्यवस्थापकम् । संयोगज नकत्वे संयोगजन्यत्वेऽपि न द्रव्ये कर्मणि च संस्कारत्वमिति तव्घावृत्त्यर्थमेकवृत्तीति । लिङ्गज्ञानं व्याप्तिज्ञानवत्युत्पन्नं लिङ्गज्ञानवन्तमात्मानं जनयतीति तद्यावृत्यर्थं स्वविजातीयेति । तद्वदत्रेति । यथा कारण- जातीयजनकत्वं बीजशब्दादौ, न चैका जातिरस्ति, तथात्रापि स्यादित्यर्थः । असतति । तत्र तु बाधकमुक्तमिति शेषः ।

न्यायलीलावतीप्रकाशविवृतिः

ऽपि स्वरुपयोग्यतावच्छेदकजातौ बाधकाभावः । भावनायां फलानुपधाननियता जातिर्नास्ति स्थितिस्थापके त्वस्तीति भावः । आद्यशब्द इति । अन्त्यस्वशब्दे स्वरूपयोग्यतासम्बन्धादाद्ये त्युक्तम । अङ्कुरस्यैवेति । एवकारेण बीजे बीजजन्यताव्यवच्छेदः । ननु साधारणकारणविवक्षया नोक्त्तदोष इत्यरुचेराह न वा कारणेति । बीजशब्दयोरिति । बीजस्य बीजजन्यत्वजनकत्वाभ्युपगमेनेदम् | एकवृत्तीति । एकवृत्ति स्वविजातीयं यत्समानाधिकरणं कारणं तज्जातीयका-