सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०२
न्यायलीलावती


सामान्यत्वम्, स्वात्मन्यवृत्ते । तत्रापि सामान्यान्तरपरिकल्पनेऽनवस्थितिः । न च सामान्यत्वद्वयम्, परापरभावानुपपत्तेः । विरोधित्वे साधारणधीध्वनिजनकत्वानुपपत्तेः ।

 मनस्त्वं च, मूर्तत्वे सति इन्द्रियत्वेनासाधारणजातिमवा-


न्यायलीलावतीकण्ठाभरणम्

स्तथा जातिप्रत्ययोऽपि नित्यत्वे सति अनेकवृत्तित्वसामान्योपाधिक एव स्यात् किं जातित्वस्य जातित्वकल्पनयेत्यर्थः । अपव्याख्यानम न्यत् । उपाधिसामान्यमन्तर्भाव्य जातौ सामान्य जातिशङ्कितं निराचष्टे नचेति । ननु परस्परवृत्तिसामान्यद्वयनिबन्धनमेव सामान्यत्वस्य सामान्यत्वं स्यादित्याह नचेति । द्वयोः सामान्ययोः परस्परा पपत्तेः विधिविरोधिहेतुसामान्याकारानुगतधीः शब्दः साधारणो न स्यात् एकेनैव सामान्येन तदुपपत्तौ द्वितीयवैयर्थ्यादिति भावः ।

 मनसि अवान्तरजातिमत्त्वं साधयति मनस्त्वञ्चेति । मनो द्रव्यत्वा वान्तरजातिमत् मूर्त्तत्वे सतीन्द्रियत्वात् चक्षुर्वदित्यर्थ: । किञ्च सु-

न्यायलीलावती प्रकाशः

सामान्यं निराकृतमेव, तथापि जात्युपाधिरूपोभयसामान्यसाधारणी जातिं निराकर्तुमाह न च सामान्यत्वमिति । नम्वेकस्य सामान्यत्वस्य स्वात्मन्यवृत्तावव्यपरस्य सामान्यत्वस्य तत्र वृत्तौ नोक्तदोष इत्यत आह नचेति । विरोधित्व इति । परस्परावृत्तित्वे सतीत्यर्थः ।

 मनस्त्वं चेति । सत्ताद्रव्यत्वाभ्यामर्थान्तरवारणायासाधारणेत्युक्तम्, मनोमात्रवृत्तीत्यर्थः । नन्वत्र साधनावच्छिन्नसाध्यव्यापको विशेष-

न्यायलीलावतीप्रकाशविवृतिः

जातित्वनिराकरणमधुना तु स्वातन्त्र्येणेत्येवमण्य पौनरुक्त्यम, तथाव्यर्थभेदद्वारापि तन्निराकरणं भवत्येवेति तथैवोक्तम् । नचेतीति । द्वितीयं सामान्यत्वं न प्रथमसामान्यत्वमात्रवृत्येकतापत्तेरिति : सत्तादावपि वर्चेत तथा च द्वितीयं सामान्यत्वं न द्वितीयसामान्यत्वे प्रथमसामान्यत्वं वा प्रथमसामान्यत्वे द्वितीयप्रथमयोस्तु प्रथमद्वितीयवृत्तिरुपैयैवान्यथा सामान्यव्यवहारापत्तेरनवस्थापत्तेश्चेति सत्तायां तयोः संकरः स्यादिति भावः ।

 असाधारण्यं स्पष्टयति मनोमात्रवृतीति । एतच पक्षधर्मताबललस्यं रूपं न तु व्यापकतावच्छेदकप्रविष्टमप्रसिद्धेः ।