पृष्ठम्:न्यायलीलावती.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्वं नास्तीति बाधकमिति चेन्न, तस्यालोकाभावव्यञ्जनीय. त्वात् । अन्यथारोपानुपपत्तेः । भावत्वे यदि द्रव्यान्तरं नवैवेति


न्यायलीलावतीकण्ठाभरणम्।

इत्याह-तस्येति । प्रत्युत आलोकाभाव एवास्य व्यञ्जक इत्यर्थः । वास्तवनीलरूपवत्त्वे तमस आलोकाभावं चाक्षुषत्वं बाधकमित्यपि शङ्कार्थमाहुः । आलोकाभाववादिमतेऽपि तत्र नीलरूपारोपानुपपत्तिरेव, न हि रूपारोपे चक्षुरालोकं नापेक्षत इत्याह-अन्यथेति । ननु दशमद्रव्यमेव तमोऽस्तु, तथा च न विभागव्याघात इत्याह-भावत्व-

न्यायलीलावतीप्रकाशः

कापेक्षस्यैव चक्षुषः सामर्थ्यात्। तथा च तमो न रूपवत् तेजोऽनपेक्षचक्षुर्ग्राह्यत्वात्। आलोकाभावदिति नीलरूपवत्त्वे बाधकामत्यर्थः। अत्रालोकाभावाव्यञ्जनीयत्वमुपाधिरित्याह-तस्येति । तमस्तु तद्व्यङ्गयमित्यर्थः । अन्यथेति । यदि नैव तर्ह्यभावत्वे तमस आलोकं विना नी

न्यायलीलावतीप्रकाशविवृतिः

यदि न विशेष्यत्वपर्यन्तं ग्राह्यत्वं तदा प्रतियोग्यधिकरणादौ व्यभिचार इति तथाविवक्षावश्यकत्वे कथमापाद्यव्यतिरेकस्तत्रेति। तस्मान्नीलरूपवदिति न दृष्टान्तान्तराभिधानं किं त्वापादकान्तराभिधानम् । अत एव नीलरूपवत्त्वे बाधकमित्यग्रिमग्रन्थोऽपि सङ्गच्छत इति ध्येयम् । बाधकं विपरीतबाधक [१]मिति तदनुग्राह्यं मानमाह-तथा चेति। न चात्राभावपक्षत्वे सिद्धसाधनमतिरिक्तपक्षत्वे चाश्रयासिद्धिर्बाधो वेति वाच्यम् , आलोकानपेक्षचक्षुर्ग्राह्यत्वस्य पक्षतावच्छेदकस्योभयसिध्या पक्षव्यक्तिविकल्पस्यादोषत्वात् । न च तन्मते अंशतः सिद्धसाधनं तदवच्छिन्नयाद्वद्यक्ते पक्षीकरणात् । अत एव हेतुपक्षतावच्छेदकाभेदनिबन्धनसिद्धसाधनाप्रसङ्गोऽपि यावत्त्वाघटितस्यैव हेतुत्वात् । वस्तुत आलोकाजन्यनीलविशिष्टचाक्षुषसाक्षात्कारविषयत्वमेव पक्षतावच्छेदकमिति नांशतः सिद्धसाधनम्, न वा हेतुपक्षतावच्छेदकयोरभेद इति तमसस्तन्मते तामसेन्द्रियवेद्यत्वपक्षे च चक्षुःपदं रूपप्रतीत्यसाधारणकारणेन्द्रियपरं गोलकपरं वा। रूपभेदेन च पक्षस्यापि दृष्टान्तत्वमभेदानुमान इवाविरुद्धमिति दिक्। अत्रेति । न च तन्मते तमोवृत्तिनीलरूपकर्मादिषु साध्याव्यापकत्व-


  1. प्रमापकमिति द्वितीयपुस्तके पाठः ।