पृष्ठम्:न्यायलीलावती.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
न्यायलीलावती


 तमस्तु [१] भावान्तरं[२] निषेधत्वेनानवभासमानत्वात् । बाधकामावेन[३] चारोपानुपपत्तेः । आलोकाभावे[४] चाक्षुष--

न्यायलीलावतीकण्ठाभरणम्

 ननु नायं पदार्थमात्रविभागो येनाभावानभिधानं दोषः स्यात्, किन्तु भावमात्रविभाग इत्यत आह--तमश्चेति । मेयान्तरं भावान्तरम् । नन्वालोकाभाव एव तम इत्यत आह-निषेधेत्वेनेति । नञर्थोपरागणेत्यर्थः । नन्वारोपितं पृथिवीरूपमेव तमो, न मेयान्तरम् , अत आह-बाधकाभाव इति । ननु तमसो भावान्तरत्वे आलोकाभावदशायां चाक्षुषत्वमेव बाधकम्, न हि भावस्तदानीं चक्षुषा गृह्यत इत्यत आह-आलोके चेति । विलक्षणमेव भावान्तरं तमो यद्ग्रहे चक्षुरालोकं नापेक्षते

न्यायलीलावतीप्रकाशः

इत्यत आह-तमश्चेति । ननु तमो न भावः किन्त्वालोकाभावः, तमः-काले तस्यावश्योपेयत्वादित्यत आह-निषेधत्वनेति। नञर्थोल्लेखेनेत्यर्थः। वस्तुतो नीलरूपचलनाद्याश्रयतया तस्यानुभवाद् भावत्वमेव तस्योचितमिति भावः । ननु नीलादि तत्रालोकाभाव एवारोप्यत इत्यत आह-बाधकाभावे चेति । आलोकाभाव इति । तमो यदि रूपवत्स्यात् आलोकानपेक्षचक्षुर्ग्राह्यं न स्यात् घटवत्, नीलरूपवद्वा, भावग्रहे आलो--

न्यायलीलावतीप्रकाशविवृतिः

टित एवं प्रलयपदादिवत तमःपदादिशक्तरित्यरुचेराह---वस्तुत इति । तमःप्रतीतिगोचरनीलरूप एव यथाश्रुते व्यभिचारात्, अन्यथा तर्कमाह--तमो यदीति। आलोकसापेक्षचक्षुर्ग्राह्यत्वे परमाण्वादावनैकान्त इत्यतो नञद्वयगर्भमापाद्यं मानुषेति चक्षुर्विशेषणमतो न विडालादिनयनग्राह्यघटादिना व्यभिचारः । नीलेति। न च नीलरूपवदिति दृष्टान्तानुपपत्तिः आपादकस्य तत्राभावादिति वाच्यम्, तमस्यारोपितस्य नीलरूपस्य व्यतिरेकदृष्टान्तत्वात् । न च ग्राह्यत्वं ग्रहणविशेष्यत्वमेव वाच्यमन्यथाऽभेदेन तमस्यारोपिते नीलरूपवति व्यभिचारादिति कथमापाद्यव्यतिरेकस्तत्रेति वाच्यम्, संसर्गस्यैव सर्वत्रारोप्यत्वमितिमतेनैतदभिधानादिति मिश्राः । तत्रेदं चिन्त्यम् ।


  1. तमश्चेति प्रकाशकृदादिसम्मत पाठः ।
  2. मेयान्तरमिति कण्ठाभरणधृतः पाठः।
  3. बाधकामांवे चेति प्रकाशादावुद्धृतः पाठः ।
  4. आलोके चेति पाठः कराठाभरणे।