सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८९
न्यायलीलावतीकण्ठाभरण-सीववृत्तिप्रकाशांद्भासिता


धारत्वस्य सम्वन्त्रभेदत्वेनाऽन्यथासिद्धत्वात् निमित्तना प्रवेशे तु तद्भेदकमानाभावेन व्यवहारानुपपत्तेः आधारस्वात्तदनुमानस्याऽन्यथासिद्धिशङ्कादूषितत्वात् । पटादौ च पीठाद्याधारत्वे नि-


न्यायलीलावतीकण्ठाभरणम्

ग्रीकादाचित्कत्वाधीनेति प्रामाणिकीय मनवभ्थेति भाव । नन्विहेदानी जात इति दिक्कालयोरधिकरणत्वं गृह्यनेऽधिकरणं च कारक मेवेत्यत आह आधारत्वस्येति निमित्ततेति आधारत्वस्य निमित्तकारणतागर्भत्वे मानाभावादित्यर्थः। नन्वाधारत्वादेर्निमित्तत्वं तयोरर्थसाम्यत इत्यत आह आधारत्वादिति । सम्बन्धितामात्रेणैवाधारस्वसिद्धो निमित्तताया अतन्त्रत्वादित्यर्थः । व्यभिचारमध्याह पदादाविति । आधारत्वमप्युपाधीनामेव न तु तयोरपीति भावः । नवानां परिमाणवत्वं संख्यावत्त्वं च साधर्म्यमाक्षिपति गगनादो चेति । हस्तवितस्त्याद्यवच्छेद-

न्यायलीलावनीप्रकाश:

कादाचित्कत्वात्, न चानवस्था अनादित्वादित्यर्थः । नन्विहेदानीं जात इत्याधारत्वं दिक्कालयोः प्रतीयते, तच्च कारणत्वगर्भमत आह आधारत्वस्येति । निमित्ततेति । दिक्कालवृत्त्याधारताया निमित्तविशे षत्वे मानाभावात् सर्वनिमित्तताव्यवहारानुपपत्तेरित्यर्थ: । नन्विह तन्तुषु पद इत्याधारस्य निमित्तत्वादिकालयोरपि तथात्वमनुमेयमित्यत आह आधारत्वादिति । विपक्षे बाघकाभावात्साध्यं विनापि पक्षे हेतुसम्भवादित्यर्थः । अनैकान्तिकत्वमाह पटादाविति । पक्षातिरिक्ते साध्यं विना हेतोः सत्त्वादित्यर्थः । वस्तुत उपाधना मेवाधारत्वं प्रती-

न्यायलीलावती प्रकाशविवृतिः

दात्मनः कारणत्वं तदा बाधकामावादिहेदानीं जात इति प्रतीतेस्तयोः कारणत्वं सिद्धेदेवेत्यरुचेराह वस्तुतस्विति । सर्वनिमित्तेति । निमित्तताघटितसर्वाधारताव्यवहारानुपपत्तेरित्यर्थः । पक्षे हेतुसम्भवादिति । उपाधिवदप्रयोजकत्वेनाप्याभिहितस्य व्यभिचारसंशयस्य पक्षीयस्यादोषत्वादिति भावः । अनैकान्तिकत्वं - निश्चितानैका न्तिकत्वम्, अत एवाह पक्षातिरिक्त इति । आधारत्व प्रतीतरपि म कारणत्वं मित्युक्तमधुना तु प्रतीतिरेव तादृशी नेत्याह वस्तुत इति ।