मैत्रम् । उत्तोत्तरत्वात् । लिङ्गस्य चास्मन्मनेऽकरणत्वान् । तच्चाध्यक्षमनुमानं च । साक्षात्कारिप्रमासाधकतममध्य
क्षम् । तत्सविकल्पकादिभेदेन भिन्न [१] मित्युक्तम् । अनुमानं
न्यायलीलावतीकण्ठाभरणम्
उक्तांत्तरत्वादिति । इन्द्रियलिङ्गशब्दा नामयोगव्यवच्छेदेन सम्बन्धों न तु प्रमेयस्यापीति स्फुटमेवेति भावः नम्वलिङ्गस्य धूमादेर्नायोगव्यवच्छेईनानुमित्या सम्बन्ध इति लिङ्गं करण स्वादित्यत आह - लि ति: [२] । स्वरूपसदिति शेषः : प्रमाणं लक्षयित्वा विभजते तच्चेति । साक्षात्करोमीत्यनुभवात् साक्षात्कारित्वं जातिः, सा चेश्वर प्रत्यक्षे घर्म्मिग्राहकमानसिद्धा । अविकल्पादीति । तदिति यदि साक्षात्कारिमात्रं
न्यायलीलावतीप्रकाशः
उक्तेति । अयोगव्यवच्छेदस्तमबर्थो न व्यापारबाहुल्यमिति न प्रमे येतिव्याप्तिरित्यर्थः । नन्वेवमनुमितेः लिङ्गं करणं न स्यादित्यत आह लिङ्गस्य चेति । लिङ्गपरामर्षोऽनुमितिकरणं न लिङ्गं तत्र चोक्त्तनिमित्त: मस्त्येवेत्यर्थः । साक्षात्कारीति । साक्षात्कारित्वं च साक्षात्करोमीत्यनुगतधीगम्यं सामान्यं चाक्षुपत्वादिव्यङ्गयम्, ईश्वरे च धर्मिग्राहकमानगम्यम्, न त्शिन्द्रियजन्यत्वं साक्षात्कारिकारणस्यैवेन्द्रियतयाऽन्यो न्याश्रयादीश्वरप्रत्यक्षाव्यातेश्च अनुमानमनुमिते: करणमनुमितित्वं
न्यायलीलावती प्रकाश विवृतिः
साधकतमत्वं प्रमेयस्यापि विषयरूपस्येत्यर्थः । यद्वा स्त्रप्रमायामित्यस्य स्वगोचरप्रमायामित्यर्थः । परगोचरप्रमाजनकत्वं प्रमेयस्यापि कालादेरित्यर्थः ।
अयोगेति । यद्यपि सर्वदा अयोगव्यवच्छेदो नेन्द्रियेऽपि कदाचिदयोगव्यवच्छेदः प्रत्ययेऽपि, तथापि स्वाधिकरणकालावच्छेदेन फलावश्यकत्वमेवायोगव्यवच्छेद इन्द्रिय सन्त्रिकर्ष एव कारणमिति भावः । ननु स्मृत्यजनकशानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वमिति नान्योन्याश्रय इत्यत आह ईश्वरेति । सामान्यलक्षणं विना न विशेषलक्षणावसर इत्यतः सामान्यलक्षणं पूरयति अनुमानमिति ।