सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती


स्वार्थं परार्थं च । स्वार्थे व्याप्तिपक्षधर्मता संवेदनम् । अनुमित्यत्यौपयिकसमस्तरूपोपेतवस्तृवाचकं वाक्यं परार्थम् । वर्णपदा


न्यायलीलावतीकण्ठा भरणम्

परामृष्यते तदाऽविकल्पकं सविकल्पकं चेति साक्षात्कारकतमपर्य्यन्तस्य तच्छब्देन परामर्शेऽविकल्पकादीत्यादिपदेनेन्द्रिय सन्निकर्षयोरुपसंग्रहः । तत्र सविकल्पकं त्यविकल्पकं तत्र चेन्द्रियामत्यर्थः । अनुमितीति । अनुमितिचरमकारणलिङ्गपरामर्षप्रयोजकशाब्दजनकवाक्यमित्यर्थः । समस्तरूपोपतलिङ्गप्रतिपादकं वाक्यमिति वाऽर्थः । वस्तुवाचकमिति । लिङ्गप्रतिपादकमित्यर्थः । ननु न्यायः कथमनुमानं तस्यानुमित्यकरणत्वात् शब्दनुमान एवान्तमावादिति चते। न,

न्यायलीलावतीप्रकाशः

च जातिविशेष इति सामान्यलक्षणमित्यभिप्रेत्य तत्र विभागमाह स्वार्थमिति । व्याप्तीति । पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमित्यर्थः । अनुमितीति । अनुमितिचरमकारणीभूतलिङ्गपरामर्षप्रयोजकशाब्दशानजनकं वाक्यं न्यायः, स एव परार्थानुमानमित्यर्थः । तथाहि प्रतिशादिपञ्चवाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते, तेन व विशिष्टवैशिष्ट्यावगाहि मानान्तरमुत्थाप्यते, तेन च चरमः परामर्ष उत्पाद्यत इति न्यायजन्यशाब्दशानस्य लिङ्गपरामर्षप्रयोजकता - वहिव्याप्यवानयमिति वाक्यस्य लिङ्गपरामर्षप्रयोजकता, नतु तत्प्रयोजकशाब्दज्ञान प्रयोज कतेति न तत्रातिव्याप्तिः । एतेन वाक्यस्यानुमित्यजनकत्वात् कथ मनुमानविशेषता । यदि च शब्दरूपानुमान एवान्तर्भावस्तदा घट मानत्याद्यपि वाक्यं परार्थानुमानं स्यात् । अथ परामर्षजनकतया लिङ्गस्यानुमानता परामर्षस्याव्यापारतया अनुमित्यकरणत्वात् वाक्यमपि तथेति तदप्यनुमानम्, तर्हीन्द्रियस्याप्यनुमानतापत्तिरित्यपास्तम् । वर्णेति । यथा आकाङ्क्षया प्रतिशादयः प्रयुज्यन्ते साऽऽकाङ्क्षा

न्यायलीलावतीप्रकाशविवृत्तिः

यद्यप्यनुमानं ज्ञानं न वाक्यविशेषात्मकम्, तथापि तादृशवाक्यप्र योज्यपरामर्ष एव परार्थानुमानं, परत्वं च वाक्यप्रयोक्त्रपेक्षया । एतेनेति । न्यायप्रयोज्यपरामर्षपरपदार्थानुमानमिति तात्पर्यस्थलेत्यर्थः । परार्थानुमानं स्यादेति । वक्तृभिननिष्ठपरामर्षजनकत्वाविशेषादिति मा.