पृष्ठम्:न्यायलीलावती.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


प्रायेण परित्यागस्य सत्त्वात् । समुदितानामप्येकनासत्त्वेऽयोग


न्यायलीलावतीकण्ठाभरणम्

यदि प्रत्येकमयोगो व्यवच्छेद्यस्तदा द्रव्ये गुणलक्षणायोगस्य सत्त्वेन व्यवच्छेदो न शक्यः सत्त्वे वा सर्वेषां सर्वलक्षणसत्त्वं स्यादित्याहअपि चेति । समुदितानां द्रव्यादिलक्षणानामयोगो यदि व्यवच्छेद्य. स्तदा एकत्र समुदितलक्षणसत्त्वं स्यात् तदा सर्वं सर्वजातीयं भवेदिति समुदितायोगनिषेधानुपपत्तिरित्याह-समुदितानामिति। समु. दिततावल्लक्षणाप्रतीत्येव तदयोगव्यवच्छेदानुपपत्तिरित्यर्थः । न च गुणादिलक्षणसहितं द्रव्यलक्षणं द्रव्ये नास्तीति व्यासज्यवृत्तिप्रति. योगिकाभावरूप एव समुदितनिषेध इति वाच्यम् , तादृशाभावानभ्युपगमात् , अभ्युपगमे वा तस्य केवलान्वयित्वेन निषेधानुपपत्तरित्यर्थः। ननु न प्रत्येकलक्षणायोगः समुदितायोगो वा व्यवच्छेद्यः किन्तु अन्यतमलक्षणपर्यवसाने सप्तमपदार्थनिषेधः स्यादित्याशङ्ख्याह---

न्यायलीलावतीप्रकाशः ।

विशेषे तदा नञन्तर्भावेनाऽप्रसिद्धत्वादधिकरणस्य न निषेधनिरूपणमित्यर्थः । किञ्चाधिकरणवत्प्रतियोग्यप्ययोगव्यवच्छेदस्य न विचारसह इत्याह-अपि चेति । प्रत्येकं षड्लक्षणपरित्यागनिषधेऽभ्युपगम्यमाने सर्वेषां सर्वजातीयत्वं स्यादिति द्रव्यत्वपरित्यागस्य गुणादौ सत्त्वाद् द्रव्यत्वाद्येकैकपरित्यागो निषेद्धुमशक्य इत्यर्थः । समुदिताना. मिति । द्रव्यादिलक्षणानामिति शेषः। समुदितत्वस्यैकत्वसत्त्वादेकस्य प्रतियोगिनोऽप्रसिद्ध्या तन्निषेधुं न शक्यत इत्यर्थः । न च व्यासज्यप्रतियोगिकतैव समुदितत्वम् । व्यासज्यप्रतियोगिकस्याभावस्या.

न्यायलीलावतीप्रकाशविवृतिः

स्येति षड्लक्षणायोगानां समुदाय ऐकाधिकरण्यं तच्च न प्रसिद्धमित्यर्थः। एवं च समुदितानामयोगानामिति मूलार्थ इति भावः। ननु नैका. धिकरण्यमयोगानां समुदितत्वम् अपितु मिलितषड्लक्षणप्रतियोगिक त्वं लक्षणे च मेलनं व्यासज्यवृत्तिर्द्धर्म इत्यत आह-न च व्यासज्येति । केचित्तु लक्षणानामेवैकाधिकरण्यं समुदितत्वमिति पूर्वफक्किकार्थमभिप्रेत्य व्यासज्यप्रतियोगिकतैवेत्यत्र स्वार्थिकः प्रत्ययः समुदितनिषेधत्वमेव वा समुदितत्वमित्यर्थ इत्याहुः। अतिरिक्तस्येति स्वरूपनिर्वचनम् । ननु घटपटौ न स्त इत्यत्र प्रतीतिबलादेव सोऽङ्गीकर्तव्य