पृष्ठम्:न्यायलीलावती.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
न्यायलीलावती


प्रायेण सर्वशब्दप्रयोगे तत्त्वादेव। अतिरिक्ताभिप्रायेण च व्याघातात् । सामान्याकारे असिद्धत्वात् । अपि च प्रत्येकलक्षणाभि--


न्यायलीलावतीकण्ठाभरणम्

त्वादेव । ननु षडेव भावाः षड्लक्षणाक्रान्ता इति न ब्रुमः,येन सिद्धसाधनं स्यादपि तु सर्वे भावाः षड्लक्षणाकान्ता इति, तथा च न सिद्धसाधनं न वा सप्तमपदार्थप्रसक्तिरित्याह-सर्वेषामिति । सर्वशब्द. स्य बुद्धिस्थाशेषवाचकतया यदि षडेव बुद्धिस्थास्तदा सिद्धसाधन. मेव षडतिरिक्तं यदि बुद्धिस्थं तदा सप्तमपदार्थस्यावश्यकत्वेन षड्: लक्षणायोगव्यवच्छेदो व्याहत एवेत्याह-षडलक्षणति । ननु षट्त्वं सर्वत्वं वा न विशेषणतावच्छेदकं अपि तु सामान्यतो भावत्वमात्रं तथा च भावत्वावच्छिन्नं षड्लक्षणाक्रान्तमेवेत्युक्ते क्व सिद्धसाधनं क्व वा सप्तमपदार्थप्रसङ्ग इत्याशङ्ख्याह- सामान्येति । भावत्वेन प्रकारेण यदि षडेव विषयीक्रियन्ते तदा सिद्धसाधनम् । षडतिरिक्तविषय. तायां च सप्तमप्रसक्तिरेवेत्यर्थः । किं च भावेषु षण्णां लक्षणानां

न्यायलीलावतीप्रकाशः

त्याह-सर्वेषामिति । सर्वशब्दस्य विधेयव्याप्यत्ववाचित्वादिति भावः। व्याप्यत्वं तदवच्छेदकभावत्वसम्बन्धप्रतीत्यैव प्रतीयत इति यत्र स प्रतीतस्तत्रैव प्रत्येतव्यम् , स च षट्त्वेन प्रतीत इति न सिद्धसाधनमेवेत्याह-षड्लक्षणेति । अथ षड्भिन्नभावेऽपि स प्रतीतस्तदा तद्यव. च्छेदोऽशक्य इत्याह-अतिरिक्तेति । ननु चाऽविवक्षितविशेष भावत्वाकान्ते षड्लक्षणपरित्यागनिषेधो विवक्षित इति नोक्तदोष इत्यत आह-सामान्याकार इति । सामान्यज्ञानस्य विशेषभाननियतत्वेन यदि द्रव्यादिष्वेव विशेषेषु तन्निषेधः, तदा सिद्धसाधनम्, अथाऽतिरिक्ते

न्यायलीलावतीप्रकाशविवृतिः ।

शब्दस्य सम्बन्धार्थतायां व्यक्तिष्वसभवः तद्वत्तिधर्मपरत्वे च व्य. क्तिपदस्य तदवच्छेदकभावत्वेत्याद्यग्रिमग्रन्थविरोधः। ननु व्याप्यत्वं मूले न श्रूयत इत्यत आह-सर्वशब्दस्येति । विधेयविरुद्धानधिकरणत्ववाचित्वादित्यर्थः । सामान्याकारे सिद्धत्वादिति शङ्कां[१] नञन्तर्भावान्तर्भावाभ्यां सिद्धसाधनाधिकरणाप्रतीतिपरतया व्याचष्टे----सामान्यज्ञानस्येत्यादि । नअन्तर्भावेणेत्यस्य इत्यर्थ इत्यत्र हेतुता समुदितत्व


  1. फकिकामिति पाठान्तरम् ।