सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५१
न्याबलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 प्रमेयमात्रम्य तर्हि किं सामान्यलक्षणम् | लक्षणं हि तन्मात्रस्य विपक्षव्यावृत्तिज्ञापकामष्टम्, प्रमेयमित्य साधारणव्यवहानप्रवृत्तिनिमित्तं वा ? नाद्य: । विपक्षव्यावृत्तेरसंभवेन तत्प्रख्या पकप्रश्नायनुपपत्तेः । न द्वितयि । प्रमाविषयस्यैव तत्त्वात् । सा-


न्यायलीलावतीकण्ठाभरणम्

व्दियाकाशाऽन्योन्याभावस्थापि घटे प्रत्यक्षत्वात् अधिकरणयोग्यताया एवाइन्योन्याभावग्रहे तन्त्रत्वात् आकाशादौ प्रत्येक प्रसिद्धनामितरभदानां समूहस्य साध्यत्वात् अभावप्रतियोगिकस्तु स्वरूपन एव साध्यः, न च साध्याननुगमः, अनुमानान्तरेण तत्साध्यसिद्धेः । तथाप्यभ्युपगमवादोऽयम् ।

 ननु यदि समानासमानजातीयव्यवच्छेदकं लक्षणं न तु परिचायकमात्रं तदा भावाभावसाधारणप्रमेयमात्रस्य कि लक्षणमत आह प्रमेयमात्रस्येति । प्रइन एवायमनुपपन्न इत्याह लक्षणं होति । त्रिपक्षव्यावर्त्तकं लक्षणमिवि जानानः प्रमेयत्वस्य विपक्षव्यावर्त्तकत्वमपश्यन् कथमेवं पृच्छेदित्यर्थः । प्रश्नादित्यादि पदादुत्तरपरिग्रहः । प्रमेयमात्रस्य किं विपक्षव्यावर्त्तकमत्र सहृदयानां न प्रश्नः न वोत्तरमुचितमिति भावः । प्रमाविषयस्यैवेति । भावप्रधानो नीर्ईशः, तेन प्रमा-

न्यायलीलावतीप्रकाशः

 प्रयेयमात्रस्येति । भावाभावसाधारणस्येत्यर्थः । लक्षणात्मकव्यतिरेकिणो द्वयं साध्यमुक्तमतस्तद्विकल्पयति तन्मात्रस्येति । तत्प्रख्यापकेति । प्रश्नवाक्यं हि किशब्दसमभिव्याहृतपदान्तरवाच्यधर्मवत्तया तदेव वस्तु निश्चाययति तद्विशेषं चानध्यवसितमुपपादयति इह तु विपक्षव्यावृत्तेरसम्भवात्क निश्चयानध्यवसायौ दर्शनीयावित्यर्थः । प्रमेति । प्रमाविषयत्वस्येत्यर्थः । तच्च यद्यप्युपधायकप्रमाव्यक्तीनमननुगमादननुगतं तथापि परपरासम्बद्धप्रमात्वजातिरेवानुगमिका । न च प्रमाविषयत्वस्यापि प्रमविषयत्वादात्माश्रयः, अवच्छेदक-

न्यायलीलावती प्रकाशविवृतिः

किंशब्दसमभिव्याहृतेति । प्रकृते च प्रमेयमात्रं लक्षणवत्वेन निश्चाययेतद्विशेषे चानध्यवसायं कारयेत्तच्चोभयमप्यसम्भवीति भावः । प्रमात्वजातिरिति । अनुभवत्वजातिरित्यर्थः । अवच्छेदकेति । इदमुपलक्षणं