लौकिक प्रत्यक्षातिक्रमेऽपि [१] द्रुमादौ पृथिवीत्व स्वीकारात् । रूपादिमत्त्वं च पृथिवीतिप्रत्ययेऽनिप्रसङ्गात् । आत्मादौ च ज्ञानाधारवस्वेनात्मजातयित्वस्य व्यतिरेकेणैवानुमानात् ।
न्यायलीलावतीकण्ठाभरगम्
योत । इतरव्यावर्त्तकधर्मोपदर्शनमन्तरेणेत्यर्थः । ननु पृथिवीत्वं प्रत्यक्षमेव किमत्र व्यावर्त्तकापेक्षयेत्यत आह लौकिकेति । द्रुमादौ तद्न्तरेण सन्देहनिरासाभावादित्यर्थः ।
ननु तथापि किं लक्षणेन रूपवत्वादिकमेव पृथिवीत्वपरिचायकं स्यादित्यत आह रूपादिमत्व इति । जलादावपि पृथिवीत्वं पृथिवीपदवाच्यत्वं वा गृह्येतेत्यर्थः । प्रत्यय इत्युपलक्षणं पृथिवीपदप्रयोगे वेत्यपि द्रष्टव्यम्। ज्ञानाधार आत्मा ज्ञानवत्वात् यन्त्रात्मा तन्न ज्ञानाधार इत्यत्र स्वात्मपरात्मसाधारण्येन व्यवहारानुमानमेव शरणमित्याह आत्मादाविति । आत्मनः प्रत्यक्षत्वेऽपि परात्मनस्तज्ज्ञानस्य चाप्रत्यक्षत्वादिति भावः । यद्यपि पृथिव्यतेजोवायूनामपि सामस्त्येन तत्तत्पदवाच्यत्वेन तत्तदितरभेदे वाऽनुमानमेव शरणम्, साध्यस्य तद्यवहारस्य तदितरभेदस्य वा प्रत्यक्षे घटादौ प्रत्यक्षत एव सिद्धेर्न साध्याप्रसिद्धिः, न चान्वयित्वं, घटादेरपि पक्षत्वात् पृथिवीत्वावच्छेदेन तत्रापीतरभेदस्य साध्यत्वात् प्रकारभेदेन एकस्यैव पक्षत्वसपक्षत्वसम्भवात्, अती-
न्यायलीलावतीप्रकाशः
वस्वादेर्लक्षणस्येत्यर्थः । आत्मादौ चेति । आत्मनि ज्ञानाधारत्वस्य प्रत्यक्षेण प्रदेऽपि परमात्मनोऽप्रत्यक्षत्वात्तत्रोपदेशादपि ज्ञानाधारत्वस्य प्रत्येतुमशक्यत्वात् विप्रतिपन्नं प्रत्यात्मत्वं ज्ञानाधारत्वेन व्यतिरेकिणा साध्यमित्यर्थः ।
न्यायलीलावती प्रकाशविवृत्तिः
ज्ञानाधारत्वस्येति । आत्मत्वस्य चेत्यर्थः । ननूपदेशके कथं न तत्प्रत्यय इत्यत आह विप्रतिपन्नमिति | ज्ञानाधारत्वेनेति । चेष्टाद्यनुमितेनेति शेषः । न च तत एवात्मत्वमनुमीयतामिति वाच्यम् । तद्याप्यत्वेन तदपरामर्षदशायामेव तत्प्रकारसम्भवादिति भावः ।
- ↑ क्रमेणेति प्रा० पु० पाठः ।