सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४९
न्यायलीलावतीकण्ठाभरण- सविवृतायोद्भासिता

क्यनुमानं लक्षणमिति [१] योग्यतया तस्याव्याव्यतिव्याप्तिविरहिणोऽविद्यमानसपक्षस्य विपक्षमात्र व्यावृत्तस्य पक्षधर्मस्य व्यतिरेकिस्वभावत्वात् न तु माध्यस्य कस्यचिदनुमानार्थं तदुपन्यासः । तस्य च प्रत्यक्षेण पृथिवीन्वाद्यवान्तरजातिनिरूपणे तत्सहकारित्वेनोपन्यासः । न धन्यथा प्रत्यक्षेण पृथिवीत्वं शक्यनिरूपणम्,


न्यायलीलावतीकण्ठाभरणम्

तस्य चीत । घृतादावपि गन्धवत्त्वं पृथिवीत्वपरिचायकतामात्रेण उपयुक्तं न त्वितरभेदानुमानकत्वेन वेत्यर्थः । न ह्यन्य-

न्यायलीलावतीप्रकाशः

यमेतत्क्रयादिव्यवहारयोग्यत्वेन व्यवहर्त्तव्यामित्याप्तेनोपदिष्टे व्य त्यन्तरेऽपि तज्जातीयत्वेन तल्लक्षणेन या तत्वज्जातीयत्वव्यवस्थापकेन क्रयादिव्यवहारयोग्यत्वमनुमीयते तथा प्रकृतेऽपि कचि व्यक्ताचियं गन्धवती पृथिवीत्वेन व्यवहर्त्तव्येत्याप्तेनोपदिष्टे गन्धव व्यक्त्यन्तरे पृथिवीव्यवहारः साध्य इत्यर्थः । न च तत्रान्वय्यनुमानं प्रकृते च वैधर्म्यामिति वैषम्यम्, अनुमानमात्र एव तात्पर्यात्, जलादौ चश्वरस्याधुनिकस्य वा सङ्केतस्य सन्देहेऽपि निर्गन्धावृत्तिपृथिवीशब्दप्रवृत्तिनिमित्तत्वत्त्वमनुमेयम् । ननु प्रत्यक्षंणैव पृथिवत्वादिग्रहसम्भवे किमर्थे गन्धवत्वादिलक्षणमित्यत आह तस्व चेति । गन्ध

न्यायलीलावतीप्रकाशविवृतिः

दूदूषणादेव नान्योन्याभावस्य साध्यतेति भावः । अनुमानमात्र एवेति । तथाच तावन्मात्रे दृष्टान्तो व्यतिरेकि प्रवृत्तिश्चान्वयास्फु रणदशायामेवेति भावः । ननु जलादौ पृथिवीशब्दत्ववाच्यत्व सन्देहे गन्धवत्त्वन पृथिवीत्वेन वा तद्नुमानं तद्विरहिण्यपि तद्यवहारे सन्देहेन तस्याप्रयोजकत्वादत आह जलादाविति । जलादौ पृथिवीशब्दवाच्यत्वसन्देहे निर्गन्धावृत्तित्वं तत्प्रवृत्तिनिमित्तस्यानिश्चि तमिति साध्यनिश्चयाभावान्नानुमानम् । न च नानार्थत्वमादाय तन्निक्ष्चयस्तदर्थकतामादायापि सन्देहात्तथापि ताशसंशयानवतार दशायामुक्तसंशयावतारदशायामिदमनुमानमविकलमिति भावः ।


  1. ↑ लक्षणं व्यतिरेक्यनुमानमिति प्रा० पु० पाठः ।