धर्मयोरधिकरणाभेदमात्रसिद्धेः । न द्वितीयः । नत्राभेदानुभवाभावात् । जय गौरित्यनुभवस्य किमालम्बनम् ? गोत्वं व्यक्तिस्तत्समवायश्चेति [१] । एवंसति गोत्वं गोत्वं, व्यक्तिः व्यक्तिः,
सम्बन्ध सम्बन्धः इति प्रतीतिः स्यान्न गौरिति । यदि
च गोत्वं व्यक्तिस्तत्सम्बन्धश्चेति गौरिति [२]प्रतीतिविषयः,
गोत्वसम्बन्धो भूतकमित्यत्र किं न गौरिति प्रत्ययः ।
भूतत्वस्म
गोत्वसम्वन्धित्वेनानिरूपणादिति चेत् ।
तर्हि गोव्यक्तावपि तत्प्रत्ययः, तस्या अपि समवायसंसृष्टत्वेनानिरूपणात् । गोत्वसम्बन्धवैशिष्ट्यं तस्या गोत्वमिति चेत् ।
किं वैशिष्टयं तदीयत्वम् ? तच्चेत् सम्बन्धान्तरमनवस्था । तया
गोत्वेन च समवायस्य निरूपणं [वैशिष्टयमिति [३]] चेत्, तद्रूपे-
न्यायलीलावतीकण्ठाभरणम्
र्थमेव । बटादौ पाकानन्तरं रक्तोऽयं न श्याम इति प्रतीतेरन्त्रोऽन्याभावान्याव्यत्तित्वशंका वैशेषिक मतेऽनुपपन्नैवेति भावः समवा. यस्य प्रत्यक्षतामाक्षेप्तुं पृच्छति अमेति । उत्तरं गोत्वमिति | समवायस्यासम्बद्धत्वातदुपरक्तप्रतीतिर्न स्यात् । एवंसतीति दोषान्तरमाह । यदि चेति । सम्बन्धाविशेषात् भूतळादावपि तदुपरक्तप्रतीतिः स्यादित्यर्थः । तत्प्रत्यय इति । गोत्वसमवायोपरक्त्त इस्यर्थः । तस्या इति । गोव्यक्त्तरित्यर्थः । तद्रूपेणापीति | गोब्यक्तिनिष्ठ रूपेणापीत्यर्थः। समवायस्यै-
न्यायलीलावती प्रकाश:
ति मात्रार्थ: । गौरिति प्रतीतिबलान्न समवायसिद्धिरित्याशयवामाक्षिपति अथेति । तक्च्चेदिति । तदीयत्वं चेदित्यर्थः । तद्रूपेणापीति ।
न्यायलीलावती प्रकाशविवृतिः
त्यावकः। यदि च मतुलोपमजानतामपि तदर्थप्रत्ययस्तदा लक्षणयेति