सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२४
न्यायलीलावती


चेत् । किं पुनरिदं सामानाधिकरण्यम् ? किं भिन्नयोर्धर्मयोरभिन्नाधिकरण सम्बन्धित्वत धर्मधर्मिणोरभेद: ? नाद्यः । तथासति


न्यायलीलावतीकण्ठाभरणम्

मत्यस्ता भेदेऽपि धर्मयो रैकाधिकरण्यं न तु भेदेनेति मात्रार्थः । एवं मीलो घट इत्यादावपि सामानाधिकरण्यवान भेदो भेदाभेदो वा, भेद एव सामानाधिकरण्योपपत्तेः । एवंसति दण्डीतिवत् नीली घट इति स्यादिति चेन्न । मतुब्लोपादभेदोपचाराद्वा तदुपपत्तेः । नन्वन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति अभावत्वसाक्षाव्घाप्यधर्म्मत्वात् अत्यन्तामावत्ववदित्यनुमानात् भेदाभेदसिद्धेरिति चेन्न । नीलोऽयमनीलश्च गौरय मगौश्चेति प्रतीतिप्रसङ्गपराघाताद् बाघोन्नीतः संसर्गावच्छिन्न प्रतियोगित्वमत्रोपाधिः । संयोगध्वंसप्रागभावयोरप्यवृत्ति वा । हेतौ नित्याभाववृत्तीति विशेषणं कैश्चि [१] इत्तं व्य-

न्यायलीलावतीप्रकाशः

वर्त्तते ज्ञायते च यथा संयोगाद्यभावः, श्यामावच्छिन्नस्य तस्यैवान्योन्याभाघस्तत्रैव रक्तावच्छिन्ने तदन्योन्याभावश्च श्यामावच्छेदेनैव विरोधात्, एकावच्छेदेन भावाभावयोरेकत्रावृत्तेरज्ञानाञ्च, नाप्यव च्छेदकान्तरेण, घटत्वावच्छिन्ने घंटे तदभावात् तदज्ञानेऽपि नीलो घट इति ज्ञानाथ | न चान्योन्याभावरूपो भेदोऽस्तु, अभेदस्तु न तदभावः किन्त्वन्य एवेति वाच्यम् । अभेदव्यवहारे तस्याहेतुत्वात् तस्मान्नीलो घट इत्यत्र नीलसम्बन्ध एव भासते । तथा सति नाली घट इति धीः स्यादिति चेत् । नीलो घट इत्यत्र बुद्धौ यदि सम्बन्धविषयत्वमापाव्द्यते तदिष्यत एव । अथ नीलो घट इति प्रयोगे सम्बन्धवाचकपदवत्त्वं तद्पीष्यत एव मतुब्लोपादुपचाराद्वा नीलपदस्य नलिवत्परत्वात् । तथासतीति । नतु धर्मधर्मिणोरभेदोपी-

न्यायलीलावती प्रकाशविवृतिः

त्रैकाळिकवृत्यभावसाक्षाद्विभाजक धर्मत्वादित्यर्थः । श्यामावच्छिन्नस्येत्याचभ्युपगमवादेन । वस्तुतः 'सविशेषणे ही'ति न्यायेन श्यामाभाव एव तत्र विषयः, तदुक्त्तं 'देशकालौ कामं भिद्येतां न तु तदुपरक्तः पद्मरागमणिरपी'ति । मतुलोपादिति। प्रथमपक्षे लुप्तः स्मृतो मतुबेवार्थप्र


  1. ↑ केक्ष्चित्प्रकाञकारैरित्यर्थः ।