पर विशेष्यभावान इति
न चैतद्भंदामेवळादनुपपन्नम् ।
विरोधेन तयोरनुपपत्तं अनुभवसिद्धत्वादविरोध इति चेत् ।
न, नदभावान । न हि जातिजतिमतोऽभिन्नेति कश्चिदनुभवति । गौरयमिति मामानाधिकरण्यानुभवेऽभेदानुभव इति
न्यायललिवती कण्टाभरणम्
स्यातीन्द्रियत्वात असावे तु समानतन्त्रसिद्धो विशेषणावेशेष्यभावसम्बन्ध एव इति भावः । नहि तत्र संयोगः सम्भवति इन्द्रियस्य च प्राध्यकारित्वमुपपादितमेवेति भावः । ननु गौरयमिति गोत्वाभिन्नोऽयं पिण्ड इत्येव भालते नतु गोरवेदन्तयोः सामानाधिकरण्यं येन तदनुरोधात् समवायप्रत्यक्षता स्यात् पिण्डानामननुगमाव, तदभ्युपगमार्थ भिन्नमपि गोत्वं भवेत् तथाच धर्म्मघमिणार्भेदाभेद इति शङ्कते नचैतदिति । एनदिति सामानाधिकरण्यभानानुरोधात् लमवायप्रत्यक्षत्वमनुपपन्नमित्यर्थः । तयोरिति । भेदाभेदयोरित्यर्थः । अनुभवेति । गोत्वाभिन्नोऽयं पिण्ड इत्यनुभवसिद्धत्वादित्यर्थः । एतादृशानुभव एव नास्तीत्याह तदभावादिति । सामानाधिकरण्यानुभवस्यैवाभेदो विषय इति शङ्कते अयमिति । धमिणा सम
न्यायलीलावतीप्रकाशः
इति प्रतीत्यापत्तेः, तस्मात्तत्र विशेषणसम्बन्धो विषयोऽत्र तु तदभेदः विषयेणैव घियां विशेषात्, अत्यन्ताभेदे च सहप्रयोगानुपपत्तेर्मैदोप्यस्तीति तयोर्मैदाभेदः, अत एव सामानाधिकरण्यप्रथाप्युपपद्यने अत्यन्तभिन्नादभिन्नाऋ तस्याव्यावृत्तेः, अन्योन्या भावत्वमव्या व्यवृत्तिवृत्ति नित्याभाववृत्त्यभावत्व साक्षाद्व्याप्यधर्मत्वात् अत्यन्ताभावत्ववदिति अनुमानमपीति मतं तनिरस्यति नचैतदिति । विरोधेनेति । भेदाभेदयोर्मिथोविरहरूपतया विरुद्धयारेकत्र समावेशानुपपत्तेरित्य र्थः । ननु पाकानन्तरं रक्तोऽयं न श्याम इत्यबाधितानुभवबलात् तत्रैव तदन्योन्याभावसिद्धस्त्वयापि भेदाभेदस्वीकारो दुर्वारः । यद्वा संयो गतदभावयारिवाविरोधः । अत्राहुः । तद्वति तदभावोऽवच्छेदभेदेन
न्यायलीलावतीप्रकाशविवृतिः
उभयनिरूपित समवायत्वं न सम्बन्धताप्रयोजकमिति भावः । नित्येति ।