सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९८
न्यायलीलावती


परमपरं चेनि ॥

इति न्यायलीलावय्यो सामान्यविचारः ।


समानजानिगुणकर्मकाय्यो परमाणवोऽन्योन्यव्यावर्तकधर्म-


न्यायलीलावतीकण्ठाभरणम्

 समानजातिगुणकमेकाय्यो इति बहुव्रीहिस्तत्र कार्यपदं गोवृषन्यायेन द्रव्यपरम् । एकदोत्पन्नपाकजा: पार्थिवपरमाणवः पक्षः । तत्र रूपा दिभिरर्थासम्भवात् न व्यावृत्तेषु पच्यमानेषु परमाणुषु समानगुणक र्म्मसामान्यवत्सु विशेषानन्तरेण योगी व्यावर्तकं पश्यति । न चाव्या-

न्यार्यलावतीप्रकाशः

व्यत्वमुपाधिर्घटत्वम् । समुच्चय इति । अनुकसमुचय इत्यर्थः ।

 समानजातीति । गोबृषन्यायेन कार्यपदं कार्यद्रव्यपरम् । ननु विजातीयानां जातिमिरेव व्यावृत्तत्वात् सिद्धसाधनवारणार्थे समानजातिग्रहणमस्तु, गुणकर्मकार्याणां व्यर्थमुपादानम् एकस्य परमाणोः पार्थिवस्य विजातीयैः पाकजैः विजातीयेन कर्मणाप्यभेदेन सिद्धसाध-

न्यायलीलावतीप्रकाशविवृतिः

सामानाधिकरण्यप्रतीतीविरोधादिति दिक् । अनुक्त्तेति । नचैवं गोत्वाश्वत्वयोरपि सामानाधिकरण्यं स्यादिति वाच्यम् । प्रतीतिबलेन क्वचित्सामानाधिकरण्यस्य क्वचिद सामानाधिकरण्यस्य च कल्पनात्, अन्यथोपाध्योरपि तथाभूतयोः क्वचिदविरोधो न स्यादिति भावः । यत्तूपाध्योः परम्परासम्बन्धः, तेन च सम्बन्धेन परस्परात्यन्ताभावसमानाधिकरणयोजत्योरपि सामानाधिकरण्यमेब, साक्षात्सम्बन्धेन तु तथाभूतयोः सामानाधिकरण्यं विरुद्धमिति विनिगमकमिति । तन्न । एवं संयोगयोः सामानाधिकरण्याभावापत्तेः । यदि च घटत्वपृथि वीत्वादेः सामानाधिकरण्ये घटत्वपटत्वादे: सामानाधिकरण्यं प्रती यते, तत्र च 'सति सम्भव' इतिन्यायेन परस्परात्यन्ताभावसामानाधिकरण्यमेव जात्यसामानाधिकरण्यनियामकं कल्प्यत इति न वाद्दशजातिस्वकिरि इति मतम्, तदा भ्युपगमवादपर एव ग्रन्थः ।

 सिद्धसाघनासम्भवादिति । गुणादिकमादायेति शेषः । पृथिवीत्व-