सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९७
न्यायलीलावतीकण्ठाभरण-पविवृतिप्रकाशोद्भासिता


णजन्यं तन्निरेपक्षकारणजन्यं वा ? आघे रजनसामग्रीविरहिणि कनककलशे नास्त्येव रजतलगत्वमिनि परापरभाव एव । द्वितीये तु स्वतन्त्रसामग्रीमतयोः रजनकलशयोर्वै जात्यमेव तन्तुपटवत् । उभयथापि न नियमविरोध अस्तु वा पगपरव्यतिरिक्तमपि तृतीयम् तथापि न काचिन्नतिः । तथाच समुच्चये चकारः


न्यायलीलावतकण्ठाभरणम्

कर्म्मजत्वादिना परापरभावानुपपत्तिमनदस्थैव, अन्यतरकर्मजत्वादिव्याप्यनानाकर्म्मसत्ताङ्गीकारेऽपि तु रजतत्वादिव्याप्यतैव स्वीक्रि यतां तेन रूपमहत्वादिसामानाधिकरण्यधीरप्युपपादिता स्यात् । यद्वा संस्थानविशेषैकार्थसमवायि द्रव्यत्वमेव घटत्वम् । न नियमविरोध इति । परापरभावापन्ने एव जाती समाविशत इति यो नियमस्तद्विरोधो नास्तीत्यर्थः । तृतीयमिति । सामान्यमिति शेषः । तथा भूतत्वमूर्त्तत्वे अपि जाती एवेति भावः । नन्वनभ्युपगमवादोपि युक्यासासमपेक्षत इत्यत आह तथाचेति । समुच्चयार्थ इत्यतो समुञ्चयार्थ इत्यर्थः ।

न्यायलीलावतीप्रकाशः

तर्हि संस्थानवृत्त्येवान्यतरकर्मजत्वादिव्याप्यं नानैव घटत्वमस्तु तन्नानात्वस्याचश्यकत्वात्, एवं संस्थानविशेषान्वयव्यतिरेकानुविधा नमपि घटत्वव्यवहारस्य संगच्छत इति चेन्न । महान्नीलो घटश्चलतीति परिमाणरूपविशेषकर्म सामानाधिकरण्येन घटत्वानुभवात् । न च गुणात्मकसंस्थाने तत्सम्भवः । यद्वा संस्थानविशेषैकार्थसमवायिद्र-

न्यायलीलावतीप्रकाशविवृतिः

ङ्गविपक्षबाधकस्य समानत्वादिति भावः । तथाच महान्नीलो घटश्चलतीतिप्रतीतेर्द्रव्यवृत्ती एव ते जाती इति रहस्यम् । ननु घटत्वस्वीकारे मानाभावः अनुगतमतेरन्यथैवोपपादनीयत्वादत आह यद्वेति । संस्थानस्यावयववृत्तित्वादाह एकार्थसमवायीति । कपालरूपादावतिप्रसङ्ग वारणाय द्रव्यपदम् । संस्थाने च विशेषो वैजात्यमेवानुभवसिद्धम् । न चान्यतरकर्मजत्वादिना तत्रापि सङ्करः । अन्यतरकर्मजत्वादेरेव नानाभूतस्य स्वीकारात्, अनुगतव्यवहारस्तु तेष्वन्यत्तर कर्मजत्वोपाघिनैव । नचैवं तदेव वैजात्यं घटत्वमस्त्विति वाच्यम् । महत्त्वादि